________________
86 VAIŠHALİ INSTITUTÉ KESEARCH BULLETIN NO. 1 प्रतिपादयितुमभिप्रयन्ति, तदाङ्गीकृतगुणप्रधानभावा अशेषधर्मसूचककथंचित्पर्यायस्याच्छब्दभूषितया सावसाधारणया वाचा दर्शयन्ति स्यादस्त्येव जीवः इत्यादिकया, अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसंभवस्य वस्तुनः संदर्शकत्वात् सकलादेश इत्युच्यते, प्रमाणप्रतिपन्नसंपूर्णार्थकथनमिति यावत् । तदुक्तम्
सा ज्ञेयविशेषगतिर्नयप्रमाणात्मिका भवेत्तत्र । ___ सकलग्राहि तु मानं विकलग्राही नयो ज्ञेयः ।।
तदिदमुक्त भवति-नयप्रमाणाभिज्ञः स्याद्वादी सकलविकलादेशावधिकृत्य वस्तुस्वरूपप्रतिपिपादयिषया यद्यद् ब्रू ते तत्तत् सत्यम्, संभवदर्थगोचरत्वात् । दुर्नयमतावलम्बिनः पुनरेकान्तवादिनो यद्यदाचक्षते तत्तदलीकम्, असंभवदर्थविषयत्वादिति ।।२९।।
सांप्रतममुमेवार्थं द्रढयन् सिद्धान्तेऽप्येकैकनयमतप्रवत्तानि सूत्राणि न संपूर्णार्थाभिधायकानीति, अपि तु तत्समुदायाभिप्रायप्रवृत्तमविकलवस्तुनिवेदकमिति दर्शयन्नाह
नयानामेकनिष्ठानां प्रवृत्तेः श्रुतवम॑नि ।
संपूर्णार्थ विनिश्चायि स्याद्वादश्रुतमुच्यते ॥३०॥ इह त्रिविधं श्रुतम्, तद्यथा-मिथ्याश्रुतम्, नयश्रुतम्, स्याद्वादश्रुतम् । तत्र श्रूयते इति श्रुतमागमः, मिथ्या अलीकं श्रुतं मिथ्याश्रुतम्, तच्च दुर्नयाभिप्रायप्रवृत्ततीथिकसंबन्धि, निर्गोचरत्वात् । तथा नयहेतुभूतैः श्रुतं नयश्रुतम्, एतच्चाहदागमान्तर्गतमेव, एकनयाभिप्रायप्रतिबद्धं, यथा-'पडुप्पन्ने नेरइए विणस्सइ' इत्यादि, ऋजुसूत्रनयाभिप्रायेण क्षणिकत्वस्यापि तत्र संभवात । तथा निर्दिश्यमानधर्मव्यतिरिक्ताशेषधर्मान्तरसंसूचकेन स्याता युक्तो वादोऽभिप्रेतधर्मवचनं स्याद्वादः, तदात्मकं श्रुतं स्याद्वादश्रुतम् । तत् किंभूतमुच्यते इत्याहसंपूर्णोऽविकलः स चासावर्थश्च तद्विनिश्चायि तन्निर्णयहेतुत्वादेवमभिधीयते,
प्रधानभावाभ्यामशेषाश्च ते धर्माश्च तेषां सूचकः कथंचिच्छब्दः पर्यायो नामान्तरं यस्य स कथंचित्पर्यायः, स चासो स्याच्छब्दश्च तेनालंकृतया ।।२६।।
पड़प्पन्नेति सांप्रतमुत्पन्नस्तत्कालोत्पन्न इत्यर्थः । निरयो दुर्गतिस्तत्र भवो नरयिको नारकिकः स नश्यति । अथ कथं तत्क्षणोत्पन्नस्य तस्य विनाशः नारकिकाणां जघन्यतोऽपि दशवर्षसहस्रस्थायित्वस्यागमेऽभिधानात् इत्याह ऋजुसूत्रेत्यादि । अयमभिप्राय:--यावन्तो नयास्तावत्समुदायरूपोऽर्हदागमः, 'सव्वनयमयं जिणमयं" इति वचनात् । यतो यथा यत्समयविशिष्टः संपूर्णस्वस्थितिधर्मा च प्रथमसमये नैरयिक पासीत्, न तथा द्वितीयसमये इति ऋजुसूत्राभिप्रायेण स्पष्टव क्षणिकतेति । स्यातेति । अस्तेर्यात्प्रत्ययान्तस्य प्रतिरूपकोऽने.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org