________________
80 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I तस्य केवलस्य स्वरूपाव्यवस्थितेरुत्पादकत्वायोगात् । न च जनकत्वादों ग्राह्यो जन्यत्वाद्वा ज्ञानं ग्राहकमतिप्रसङ्गादित्युक्तम्, किं तर्हि आवरण विच्छेदादेर्लब्धसत्ताकं ग्रहणपरिणामात ज्ञानं गृह्णाति, अर्थस्तु संनिधानादेर्गृह्यते, स चानुवर्तमानव्यावर्तमानरूप एव प्रतीयते इति तथाभूतोऽभ्युपगन्तव्यः, न केवलं सामान्यरूप इति । सदसदंशयोः कथमेकत्रावस्थानमिति चेत् , तादात्म्येनेति ब्रमः । ननु तादात्म्यं भावमात्रमभावमात्रं वापद्येत, इतरेतराव्यतिरिक्तत्वात, इतरेतरस्वरूपवत , तन्नोभयरूपवस्तुसिद्धिः । नैतदस्ति, तादात्म्यस्य संबन्धत्वात , संबधस्य च द्वयनिष्ठत्वात , तदभावे कस्य केन संबन्धः निर्गोचरत्वात । तस्मादेतौ सदसदंशौ धर्मिरूपतया अभेदिनौ, वस्तुनः सदसद्रूपस्यैकत्वाद्, धर्मरूपतया पुनर्विवक्षितौ भेदमनुभवतः, स्वरूपेण भावात, पररूपेण त्वभावादिति । तदेवं प्रत्यक्षे विविक्तवस्तुग्राहिरिण सकलप्रमाणप्रष्ठे प्रसाधिते शेषप्रमाणान्यपि तदनुसारितया विविक्तमेव स्वगोचरं स्थापयन्तीति, तदपलापी केवलसामान्यप्रतिष्ठापकः कदभिप्रायः संग्रहदुर्नयव्यपदेशं स्वीकुरुते, विशेषापेक्षयय सामान्यस्थापकस्य संग्रहनयत्वादिति ।।
तथा व्यवहारोऽपि प्रमाणप्रसिद्ध वस्तुस्वरूपं निहनुवानो युक्तिरिक्तमविचारितरमणीयं लोकव्यवहारमार्गानुसारि समर्थयमानो दुर्नयतामात्मनि निधत्ते, लोकव्यवहारप्रसाधकस्यापीतरानिष्टौ व्यवस्थानाभावात् । तथा हि-यदीदं कियत्कालभावि स्थूरतामाविभ्राणं लोकव्यवहारकारि घटादिकं भवतस्तात्त्विकमभिप्रेतं तन्नाकस्मिकम्, कि तहि नित्यपरमाणुघटितम्, इतरथा निष्कारणत्वेन सर्वदा भावाभावप्रसङ्गात् । न ते परमाणवस्तथा प्रतिभान्तीति चेत , न, अत एव तेषामनुमानतः सिद्धिः, यदि पुनर्यदेव साक्षान्न विशददर्शने चकास्ति तत्सकलमपलप्येत हन्त बह्विदानीमपलपनीयम्, घटादिवस्तुनोऽप्यर्वाग्भागवर्तित्वङ्मात्रप्रतिभासात मध्यपरभागादीनामपलापप्रसङ्गात , तथा च लोकव्यवहारकारितापि विशीर्यंत, तावता तदसिद्धेः । अथात्रानुमानबलेन व्यवहारक्षमसंपूर्णवस्तुनः साधनम्, एवं तहि भूतभाविपर्यायपरमाणुसाधनमपि क्रियताम्, विशेषाभावात् । तथा हितदिति । प्रत्यक्षम् । प्रतिप्रसङ्गादिति । चक्षुषा जन्यमानस्यापि ज्ञानस्य चक्षुरग्राहकत्वात् । आवरणविच्छेदादेरिति । विच्छेदः क्षयः, आदिशब्दात् क्षयोपशमः तद्धतवश्च कारणत्वेन द्रव्यक्षेत्रकालालोकादयः गृह्यन्ते, तहि ज्ञानावरणकर्मणः क्षयोपशमे कृते तदनन्तरमव्यवधानेन ज्ञानमुत्पद्यते इति । प्रष्ठे इति । विशदप्रतिभासरूपत्वेन सकलप्रमारणमुख्ये।
अनुमानतः सिद्धिरिति । द्वयणुकादि स्कन्धो भेद्यः, मूर्तत्वे सति सावयवत्वात्, कुम्भवत् । सावयवराकाशादिभिर्व्यभिचारपरिहारार्थ मूर्तत्वे सतीति विशेषणम् । ये च द्वयणुकादिभेदादनन्तरमंशासमुत्पद्यन्ते अवयवास्ते परमाणवः। अथवान्यथानुमानयामः-अणुपरिमाणतारतम्यं क्वचिद् विश्रान्तम्, परिमाणतारतम्यत्वात्, अाकाशपरिमाणतारतम्यवत् । यत्र अणुपरिमाणतारतम्यं विश्रान्तं त एव परमाणवः । अथानुमानबलेनेति । तथा हिअर्वाग्भागः सांशः, अर्वाग्भागत्वात्, संप्रतिपन्नार्वाग्भागवत् । न च वाच्यं यद्यग्भिागदर्शनेनावयवी साध्यन्ते, तहि घटशकलमात्रस्यापि सांशत्वसिद्धिः प्राप्नोति, यतो घटशकलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org