________________
78 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 पुनर्यावन्तो विशेषास्तावन्तस्तदंशा: प्रसजन्ति, न चैतदस्ति सामान्यस्य निरवयवत्वात , सावयवत्वेऽपि पुनस्ते भिन्ना अभिन्ना वा । यद्य भिन्ना विशेषाः, तमुभेदिनः किं नेष्यन्ते, विशेषाभावात् । भेदपक्षे पुनस्तेष्वपि तत्कथं वर्तेत-सामस्त्येन एकदेशेन वेति ? तदेव चोद्यमलब्धपरिनिष्ठमवतरति, तन्नात्यन्तभेदिनो वृत्तिः संभवति। किं च यद्येकं सामान्यं भेदवत् समस्तविशेषेषु वर्तेत, तदैकविशेषोपलम्भकाले तदुपलभ्यते न वा ? यद्याद्यः पक्षः, तस्यैकतया सर्वत्रोपलम्भात , व्याप्यग्रहणाभावे व्यापकग्रहणासिद्धेः निखिलतद्वयाप्यविशेषग्रहणमासज्येत, न चैतदस्ति, पुरोवर्तिविशेषस्यैव साक्षात्करणात, शेषविशेषारणामसंनिधानात, संनिहित विशेषनिष्ठमेव तदुपलभ्यते, तस्यैव तद्वयञ्जकत्वात् । इतरेषां तदभावादिति चेन्न, एकस्वभावस्य खण्डशो व्यञ्जनायोगात, संनिहितविशेषव्यजितमेव तत्सर्वत्र स्वभावान्तराभावात् सर्वविशेषगतं च तद्रूपमतस्तद्दर्शनं केन वार्येत । अथ द्वितीयः कल्पः, तथा सति यथा एकविशेषोपलम्भसमये नोपलभ्यते, तथा विशेषोपलभ्भकालेऽपि नोपलभ्येत, विशेषाभावात्, अतस्तदभाव एवोक्तः स्यात, केवलस्योपलम्भाभावात्, उपलम्भेऽपि स्वस्वभावस्थितेविशेषरूपतापत्तिः, तथा चिरंतनविशेषव्यवस्थितसत्ताकं तन्नूतनविशेषोत्पादे सति कथं तेन सह संवन्धमनुभवेत् ? न तावद्विशेषान्तरेभ्यस्तदुत्पित्सु विशेषदेशं गन्तुमर्हति, निष्क्रियत्वात , नापि तत्रैवाभवत्, विशेषोत्पादात्प्राक् तद्देशे तदुपलम्भाभावात , नापि विशेषेण सहोत्पद्यते, नित्यत्वात , नित्यस्य चोत्पत्तिनिरोधाभावात् । अथ एतद्दोषपरिजिहीर्षया तत्सक्रियकमभिधीयते, तथापि पूर्वव्यक्तित्यागेन वा नूतनविशेषदेशमाक्रामेत तदभावेन वा ? न तावदाद्यः पक्षः, चिरंतनव्यक्तीनां सामान्यविकलतया तत्संवन्धसाध्यबुद्धिध्वनिविरहप्रसङ्गात्, न चैतदस्ति, अपरापरविशेषोत्पादेऽपि प्राचीनव्यक्तिषु तद्दर्शनात् । अथ द्वितीयः कल्पः, तदप्यसंबद्धम्, निरवयवस्य पूर्वव्यक्तित्यागवैकल्येन समुत्पित्सुव्यक्तिप्रतिगमनाभावात , सावयवपक्षस्य पुनः प्रागेवापास्तत्वात , नैतदभ्युपगमद्वारेण परिहारः श्रेयान् । अन्यच्च व्यतिरिक्तसामान्यसंबन्धाद् यदि भावाः समानाः, न स्वरूपेण, तदा सत्त्वसंवन्धात्प्राग् भावाः सन्तोऽसन्तो वा । सन्तश्चेदपार्थकः सत्तासंबन्धः, अन्यथानवस्था प्रसज्येत, पुनः सत्तान्तरसंबन्धानिवारणात् । असन्तश्चेदत्यन्तासतामपि गगनारविन्दादीनां सत्तासंबन्धात भावरूपतापद्येत । एवं द्रव्यत्वगुणत्वकर्मत्वगोत्वादिसामान्येष्वपि समस्तमेतद्वाच्यम्, एकयोगक्षेमत्वात , तन्न परस्परमत्यन्तव्यतिरेकिणौ सामान्यविशेषौ कथंचन घटामाटीकेते । अत एव तत्समर्थनप्रवणस्तत्तादात्म्यप्रतिक्षेपकोऽभिप्रायो निरालम्बनत्वान्नैगमदुर्नयस्य व्यपदेशमास्कन्दति, तादात्म्यापेक्षयैव सामान्यविशेषव्यतिरेकसमर्थकस्य नैगमनयत्वात् , व्यतिरेकिणोरपि तयोर्वस्तूनि कथंचिद् भावात , इतरथा विवक्षयापि तथा दर्शयितुमशक्यत्वात ,
तद्दर्शनमिति । सर्वव्यक्तीनां प्रत्यक्षता ।
नूतनविशेषसंबन्धादीत्यादिशब्दसूचितं दूषणमभिधातुकाम प्राह अन्यच्चेत्यादि । सत्त्वसंबन्धादिति। सत्त्वं सामान्य भावः सत्ता जातिरिति पर्यायाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org