________________
76
VAISHALI INSTITUTE RESEARCH BULLETIN NO. I
हि यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव विवर्तते तदैव तं शब्दं प्रवर्तमानमभिप्रैति न सामान्येन । यथा उदकाधाहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावानेव घटोऽभिधीयते, न शेषः, घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात् पटादिवदिति । श्रतीतां भाविनीं वा चेष्टामधिकृत्य सामान्येनैवोच्यते इति चेन्न, तयोर्विनष्टानुत्पन्नतया शशविषाणकल्पत्वात् । तथापि तद्द्वारेण शब्दः प्रवर्तते, सर्वत्र प्रवर्तयितव्यः, विशेषाभावात् । किं च यद्यतीतवर्त्स्य - च्चेष्टापेक्षया घटशब्दोऽचेष्टावत्यपि प्रयुज्येत, कपालमृत्पिण्डादावपि तत्प्रवर्तनं दुर्निवारं स्यात विशेषाभावात, तस्माद् यत्र क्षणे व्युत्पत्तिनिमित्तविकलमस्ति । तस्मिन्नेव सोऽर्थस्तच्छब्देन वाच्य इत्येवंभूतः ।
तदेवमनेकधर्मपरीतार्थग्राहिका बुद्धिः प्रमाणम्, तद्द्वारायातः पुनरेकधर्मनिष्ठार्थसमर्थनप्रवणः परामर्शः शेषधर्मस्वीकार तिरस्कारपरिहारद्वारेण वर्त - मानो नयः । स च धर्माणामानन्त्यादनन्तभेद:, तथापि सर्वसंग्राहकाभिप्राय परिकल्पनमुखेनैव सप्तभेदो दर्शितः । अयमेव च स्वाभिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारद्वारेण प्रवर्तमानः परामर्शो दुर्नयसंज्ञामश्नुते । तद्बलप्रभावितसत्ताका हि खल्वेते परप्रवादाः । तथा हि-नैगमनयदर्शनानुसारिणौ नैयायिकवैशेषिकौ । संग्रहाभिप्रायप्रवृत्ताः सर्वेऽप्यद्वैतवादाः, सांख्यदर्शनं च । व्यवहारनयानुपाति प्रायश्चार्वाकदर्शनम् । ऋजुसूत्राकूतप्रवृत्तबुद्धयस्ताथागताः । शब्दादिनयमतावलम्बिनो वैयाकरणादय इति । अथेत्थमभिदधीथाः यथा -- - कथमेतेऽवधारणद्वारेण स्वकमर्थं समर्थयन्तस्तद्विपरीतं निराकुर्वाणा दुर्नयतां प्रतिपद्यन्ते इति, अत्रोच्यते--- एवं प्रवृत्तौ निर्गोचरत्वात, निर्गोचरस्य नयत्वायोगात् । तथा हि-नयति केनचिदं - शेन विशिष्टमर्थं प्रापयति योऽभिप्रायः स नयः, स्वाभिप्रेतधर्मात शेषधर्मप्रतिक्षेपद्वारेण तु प्रवृत्तौ न किंचन नयति, एकधर्मालिङ्गितस्य वस्तुनोऽसंभवात, बहिरन्तश्चानेकधर्मपरिकरितस्वभावस्य तस्य प्रतिभासात्, तदपह्नवकारिणां कदभिप्रायाणां प्रतिभासबाधितत्वेनालीकत्वात् । तथा हि-यः तावन्नैगमनयः परस्पर विश्लिष्टौ सामान्यविशेषौ प्रत्यपीपदत, तदयुक्तम्, तयोस्तथा कदाचन प्रतिभासाभावात् । यच्चोक्तम् - अनुवर्तमानैकाकारपरामर्शग्राह्यं सामान्यं यत्र न तत्र
एवंभूत उच्यते तत्प्रतिपादनपरो नयोऽप्येवंभूतः । तथा एवं यः शब्देनोच्यते चेष्टादिकः प्रकार : तमेवंभूतः प्राप्तोऽभिप्रायः तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमनात् । श्रस्मिश्च पक्षे निरुपचारोऽप्येवं भूतध्वनिरभिधीयत इति । यस्त्वचेष्टावत्यपि पृथुबुध्नोदराद्याकारे घटशब्दप्रयोगः स मिथ्या, निर्निमित्तत्वात् । शशविषाणकल्पत्वादिति । ईषदपरिसमाप्ते शशविषाणे शशविषाणकल्पे, तयोर्भावः तत्त्वं तस्मात् । सर्वत्रेति चेष्टादावपीत्यर्थः । यद्यतीतेत्यादिना शशविषाणकल्पत्वाभावेऽपि दूषणान्तरमभिदधाति । संग्रहश्लोक :
एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवं भूतोऽभिमन्यते ॥
सदेति । प्रवृत्ति निमित्तकालादन्यदापि । तदिति वस्तु ॥ वैयाकरणादय इति । ग्रादिशब्दादभिधर्मकोशकर्तारो गृह्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org