________________
73
NYAYĀVATĀRA” माकलयेत , तदा विनष्टत्वाविशेषानिरवधिः क्षणपरंपरा तत्र प्रतीयेत, तथा च सति संकलिकया अनादिजन्मपरंपराग्राहि प्रत्यक्षमनुषज्येत, एवमनागतक्षणग्रहणेऽपि योज्यम्, अनिष्टं चैतत , तस्मात् तद्वार्तमानिकक्षणग्रहणदक्षमेवेत्यभ्युपगन्तव्यम् । ननु न यदि क्षणभङ्गुरतामर्थात्मनामध्यक्षमेव लोकयति, तदानीलतेव प्रतिभासमाना सा विप्रतिपत्तिगोचरं न यायादिति तद्विषयो लौकिकानां व्यवहारः प्रवर्तेत, न चैतदस्ति, स्थिरताद्वारेण व्यवहारप्रवृत्तेरिति । अत्र प्रतिविधीयते-साक्षात्कुर्वाणा अपि क्षणविनश्वरतां सदृशापरापरोत्पत्तिविप्रलब्धबुद्धयो मन्दा नाध्यवस्यन्ति, अनादिकालप्ररूढवासनाप्रबोधसमुपजनितमिथ्याविकल्पसामर्थ्याच्च विपर्यस्तस्थिरताव्यवहारं प्रवर्तयन्ति, तन्नायमध्यक्षस्यापराधः, अपि तु प्रमातणामेव । तथा हि-घनाकारोऽपि प्रत्यक्षपृष्ठभाविमिथ्याविकल्पसंदर्शित एव, विविक्तदर्शने तत्प्रतिभासायोगात्, करचरणशिरोग्रीवादयो ह्यवयवाः परस्परविभक्ता एव तत्र प्रतिभान्ति, न व्याप्याकारः, न च तेऽपि स्वांशव्यापिनः प्रतिभान्ति, तदवयवानामपीतरेतरविशकलितरूपाणां प्रतिभासता तावत् यावत्परमाणव एव प्रथन्ते, व्यापिरूपस्य विचाराक्षमत्वादित्युक्तप्रायम् । नाप्यनुमानास्थिरस्थूरवस्तुसिद्धिः, प्रत्यक्षपरिगृहीतं हि संबन्धमासाद्यानुमानं प्रवर्तते, यदा च तत्क्षणभङ्गुरविविक्तांशग्रहणचातुर्यमाबिम्रद् दर्शितं तदानुमानमपि तत्प्रतिबन्धमूलकं तद्गोचरमेव पारंपर्येण प्रतिष्ठापयति, स्वप्रतिभासिनो रूपस्यालीकतया तत्प्रतिष्ठापनद्वारेणैव तस्य प्रामाण्यात्। नन च स्मरणप्रत्यभिज्ञानादीनि स्थिरस्थूरवस्तुव्यतिरेकेण नोपपद्यन्ते, पूर्वमदष्टे तदभावात्, पुरुषाद्यवयविनां स्मरणात्प्रत्यभिज्ञानाच्च । नैतदस्ति, तेषामलीकवासनाप्रबोधोत्थापितत्वेन प्रामाण्यायोगात् । किं च, तान्यपि स्वयं वर्तमानक्षणे एव प्रकाशन्ते, विप्लववशात्तु स्वरूपमेव वासनासंपादितातीतार्थरूपतया व्यवस्यन्ति, घनाकारं च तस्यासन्तमध्यारोपयन्ति, तन्न तेभ्योऽपि व्यापिवस्तुसिद्धिः । तस्माद
__ तत्र सौत्रान्तिकयोगाचारशब्दौ पूर्वमेव दत्ताी। वैभाषिकमध्यमशब्दौ त्वेवं सौत्रान्तिकाद्यपेक्षया विरुद्धं भाषणं चतुःक्षणिकं वस्त्वादि विभाषा, गुरोश्च निष्ठायां सेट इति अप्रत्ययः, स प्रयोजनं प्रवर्तकं वैभाषिकध्वनिनिमित्तं यस्य स वैभाषिकः । प्रयोजनम् (पा० ५-१-१०६)-इति ठञ् । प्रभाचन्द्रस्तु न्यायकुमुदचन्द्रे –'विभाषा सद्धर्मप्रतिपादको ग्रन्थविशेषस्तां विदन्ति अधीयते वा वैभाषिकाः' इत्भुवाच । तथा मध्ये भवो मध्यम: मध्यान्ममण वा इति विश्रान्तसूत्रेण मप्रत्ययः । पूर्वोत्तरक्षणासंस्पर्शी निराकारो ज्ञानक्षणस्तत्समर्थनप्रवणा वादिनीऽपि मध्यमाः। माध्यमिक ध्वनिस्तु इत्थम्-~-मध्यमेन, क्षणेन चरन्ति चरत्यर्थे इकण् । यद्वा मध्यम प्राद्यपुरुषविशेषस्तस्य दर्शनं मध्यमम् तत्प्रयोजनं येषाम्, पूर्ववत् ठञ्, अस्त्यर्थे वा ठञ् । द्वाद्यस्वरवोतोऽस्य प्राय (?) इति पाठः ।
घनाकारोऽपीत्यादिना देशव्याप्ति दूषयितुमुपक्रमते । स्वप्रतिभासिन: सामान्यस्य । तत्प्रतिष्ठापनद्वारेण अध्यवसायवशात्स्वलक्षणव्यवस्थापनद्वारेण । तस्य अनुमानस्य । स्मरणप्रत्यभिज्ञाविति । प्रादिशब्दात् संकलनाज्ञानादिग्रहः । तान्यपि स्मरणप्रत्यभिज्ञानादीनि । विप्लव इति । सदृशापरापरोसत्तिदर्शनकृतो विभ्रमः । स्वरूपमिति । स्मरणानुगतं बोध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org