________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પ્રવતિની માષિીકે તે
[१४१ वैराग्यमानससरोबरराजहंस, प्रौढप्रमासुरनरेशशिरोऽवतसं, इक्ष्वाकुवंशतिलकं भुवनाभिरामं, कामं दधामि हृदये प्रथमं जिनेशम् ॥५॥
सन्ततं जलजतायुतमत्र, पङ्कजं च शशिनं च विमुच्य । अद्वितीयकमलापदपद्म, सेवे ते तव विभो ! गतदोषम् ॥६॥ एवं श्रीऋषभं गुरुत्तमगुणं यः स्तौप्ति भक्त्यान्वहं, भव्याम्मोजविकाशनग्रहपतिं स्फारप्रभाशालिनम् । तस्यानन्दविधायिनी प्रतिदिनं मेरुस्थितिस्थेयसी, लक्ष्मीश्मनि रमीति जनता पुष्पप्रतिष्ठोदया ॥७॥
इति प्रव० मेरुलक्ष्मीगणिकृतं श्रीआदिनाथस्तवनम् । २. तारङ्गामण्डनश्रीअजितनाथस्तवनम् ।
( अनुष्टुप् छन्दः) केवलज्ञानसम्पूर्ण, वन्देऽहमजितं जिनम् । इक्ष्वाकुवंशश्रृङ्गारसारमुक्ताफलोपमम् ॥१॥ जितशत्रुकुलाम्भोजे, विजयाकुक्षिपल्बले । सुस्वरः शुद्धपक्षोऽयं, राजते राजहंसवत् ॥२॥ मोहमल्लविजेतारं, रागद्वेषविवर्जितम् । स्तौमि श्रीअजितं देवं, सुरासुरनमस्कृतम् ॥३॥ अनन्तगुणधातारं, सन्तोषसुखसागरम् । प्रणमामि महाभक्त्या, वैजयेयं जिनेश्वरम् ॥४॥ एवं स्तुतो मया भक्त्या, तारणाद्रिविभूषणम् । श्रीमान् श्रीअजितस्वामी, दद्यान्मे वाञ्छितं फलम् ॥५॥ इति प्रवर्त्तनी वा० मेरुलक्ष्मीगणिकृतं तारङ्गामण्डनश्रीअजितनाथस्तवनम् ।
For Private And Personal Use Only