________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीकेसरियानाथ-स्तुतिपञ्चकम् । रचयिता-पूज्य मुनिमहाराज श्री. धुरंधरविजयजी
[१] यो देवैः परिपूजितः प्रतिदिनं भक्त्योल्लसन्मानसै
ये प्रीत्या प्रणमन्ति पूर्णप्रणयं जैनाश्च जैनेतराः ॥ येनासन्मतिमोहमूढमहिमा निर्णाशितः सर्वथा, तं श्रीकेसरियादिनाथमनिशं वन्दे धुलेवास्थितम् ।। १ ॥
[२] यस्मै स्वार्पणमाचरन्ति चतुराः श्रेयस्पथि प्रस्थिता,
यस्माल्लौकिकनीतिधर्मरचना प्राप्ता स्थितिं भारते ॥ यस्यैवाद्भुतभूतभव्यचरितं जेगीयते निर्जरै
स्तं श्री केसरियादिनाथमनिशं वन्दे धुलेवास्थितम् ॥२॥
-
- [३]
यस्मिन्माद्यजिनेन्द्रनामप्रकृतिः पुष्टा प्रभावंगता,
यनामस्मरणादुरगदुरितं दूरंगतं दीनवत् ॥ यन्माहात्म्यमतुल्यशल्यरहितं श्रीमेदपाटे झुवि, तं श्रीकेसरियादिनाथमनिशं वन्दे धुलेवास्थितम् ॥३॥
[४] सत्काश्मीरजसौरभातिशयतो यत्माङ्गणै सौरभ,
पासर्पनितरां ततो मधुकरा गुञ्जन्ति भव्मात्मनः ।। मेघश्यामलमूर्तिमीक्ष्य मनुजाः कुर्वन्ति केकारवं,
तं श्रीकेसरियादिनाथमनिशं वन्दे धुलेवास्थितम् ॥४॥
शुद्धभाञ्जलमावतोऽञ्जलिमुपाकृत्य स्थिता यन्मुखं,
'प्रेष्यस्तेऽस्मि प्रभोऽस्मि भक्तहृदयः किञ्चित्करः किङ्करः ।। एवं नीति विदः सदोदयपुरेशाद्या बदन्त्युत्तमा
स्तं श्रीकेसरियादिनाथमनिशं वन्दे धुलेवास्थितम् ॥ ५॥ श्रीकेसरियाजीतीर्थ अंगेना सम्पादकीय वक्तव्य माटे वांचो पृ० २८९
For Private And Personal Use Only