________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८] શ્રી જૈન સત્ય પ્રકાશ
[ वर्ष १२ अलाभे दन्तकाष्ठानां प्रतिषिद्धदिनेष्वपि [निषिद्धायां तिथावपि] । अपां द्वादश गण्डूषैर्मुखशुद्धिर्भविष्यति [:प्रजायते ॥
-(स्मृ० र०) व्यास० ॥ त्रि०२-७३ ॥ उच्चारे मैथुने चैव प्रस्रावे दन्तधावने। श्राद्धे [स्नाने] भोजनकाले च षट्सु मौनं समाचरेत् ॥ हारीत० ॥ प्रभाते मैथुने चैव प्रस्रावे दन्तधावने । स्नाने च भोजने वानस्यां सप्त मौनं विधीयते ॥ त्रि. २-३१॥ खदिरश्च करंजश्च कदम्बश्च वटस्तथा। तित्तीणी वेणुपृष्ठश्च आम्रनिम्बौ तथैव च ।
-नरसिंहपुराण ॥ त्रिवर्णा० २-६३ ॥ एकपंक्त्युपविष्टानां, विप्राणां [धर्मिणां] सह भोजने । यवेकोपि त्यजेत्पात्रं, शेषमन्नं न भोजयेत् [शेषैरन्नं न भुज्यते ॥
__ -(आ० स्मृ०) पराशर० ॥ त्रिवर्णाचार ६-२२०॥ पूर्वमायुः परीक्षेत पश्चाल्लक्षणमेव च ।। आयुहीनं नराणां चेत् [-जनानां च,] लक्षणैः किं प्रयोजनं ॥
-सामुद्रिकशास्त्र ॥ त्रिवर्णा० ११-८॥ ज्वराभिभूता या नारी, रजसा चेत्परिप्लुता । कथं तस्या भवेच्छौचं, शुद्धिः स्यात् केन कर्मणा ॥ ( याज्ञ० स्मृति मीताक्षरा, स्मृ० र०) उशनस् स्मृति ॥ त्रि० १३-८६ ॥ उदद्गते भास्वति पंचमेऽब्दे, प्राप्तेक्षरस्वीकरणं शिशूनाम् । सरस्वती विघ्नविनायकं च [क्षेत्रसुपालकं च] गुडोदनाधैरभिपूज्य कुर्यात् ॥ (षीयूषधारा) वशिष्ठ० ॥ त्रि० ८-१६९ ॥ समे च दिवसे कुर्यात् , देवतोत्थापनं बुधः । षष्ठे च विषमे नष्ट, त्यक्त्वा पंचमसप्तमौ ॥
-नारदवचन (मुहूर्तचिंतामणि-पियूषधारा) । त्रि. ११-१८० ॥ तृणराजसमोपेतं, यः कुर्यादन्तधावनम् । नरश्चांडालयोनिः स्या -यावद् गंगां न पश्यति । गोमील (स्मृ०)॥ तृणराजसमोपेतो यः कुर्यात् दन्तधावनम् । निर्दयः पापभागी स्या-दनन्तकायिकं त्यजेत् ॥ त्रि०२-६७ ॥
For Private And Personal Use Only