________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
-
અંક ૩] નિમિતકે કર્તા વિક્રમ દિગમ્બર થે? प्रशस्ति-युगयुगरसशशिवर्षे, विक्रमतो विक्रमाख्यवरनगरे ।
श्रीराजसिंहराज्ये, मंत्रीश्वरकर्मचन्द्राढये ॥१॥ लब्धजगज्जयवर्णे, विशिष्टवरशास्त्रबोधकाकीर्णे। श्रीमत्खरतरगन्छे, गुणमणिभिः सिन्धुवदतुच्छे ॥२॥ यैः प्रोढिमानममलं, प्राप विवृणवद्भिरद्भुतनबांगो । श्रीअभयदेवगुरुभिः, क्षमारमा सक्षमा गुरुभिः ॥३॥ तस्मिन् विजयिषु सुनयिषु, श्रीमजिनचंद्रसूरिसत्प्रभुषु । बहुविधरत्नमंडितमिहास्ति येषां सदीपान्तम् ॥४॥ श्रीक्षेमशाखासु बभूवुरुच्चकैः श्रीक्षेमराजाभिधपाठका भुवि । आबालगोपालविचक्षणावलिं, येषां यशोऽद्यापि चमत्करोति ॥५॥ येषामुदयिनः शिष्याः, अधुतत् दीपवद्गुणैः । शिवसुन्दरनामानः, कनकाहाश्व पाठकाः ॥६॥ वाचनाचार्यसौन्दर्य-पदप्राप्तमहामहाः ।। श्रीदयातिलकाः कामं, तथा कामितदायिनः ॥ ७॥ युग्मम् ।। तेषां पट्टोदयक्षोगी-धरचूलादिवाकराः । राजते वाचनाचार्याः सिद्धिनेयगणार्चिताः ॥८॥ प्रमोदमाणिक्यशुभाभिधाः सुधामाधुर्यवचोविलासिनाम् (!)। अनेकशास्त्रार्थसुपाठकानां, तच्छिष्यतावाप्तसुखोदयानाम् ॥९॥ श्रीजयसोमगणीनां, शिष्येणेयं विनिर्मिता वृत्तिः।
काव्यस्य नेमिदूताभिधस्य गुणविनयगणिसुधिया ॥ इति श्रीमदसंख्यसंख्यावन्मुख्यदक्षश्रीजयसोमगणिरत्ननां शिष्येण पंडित श्रीगुणविनयगणिना श्रीनेमिदूतमहाकाव्यविवरणं चक्रे ।
लेखन--संवत् १९५३ आश्विनी मासे शुक्लपक्षे तिथौ ९ म्यां गुरुवासरे प्रथमयामे । लि. पं. धनरूपसागरेण श्रीशांतिजिनप्रसादात् ।
प्रतिपरिचय--पत्र २५, प्रतिपत्र पंक्ति १८ (त्रिपाठ), प्रतिपंक्ति अक्षर ५२ के लगभग है।
विशेष-ऐसी ही एक अन्य प्रत भी महो. रामलालजीके संग्रहमें है, पर वह लिखते लिखते छोड दी जानेसे अधूरी रह गई है।
हमने अपने संग्रहालयके लिए प्रस्तुत वृत्तिकी प्रेसकापी भी करवा ली हो। जो प्रकाशित करना चाहें हमसे मंगवा लें।
For Private And Personal Use Only