SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- - श्रीविक्रमनराधीशाष्टकम् रचयिता--पूज्य मुनिमहाराज श्री भद्रंकरविजयजी सर्वोपतिचक्रचुम्विचरणो यः सार्वभौमो नृपः, नित्यं सन्नतिमातनोति सुमुदा श्रीसर्वसार्वे सदा । दानेनैव वदान्यमान्यरविसूः सदूधन्यभूर्धन्यको, जीयाद्विक्रमराट् स जैनसुमतं सम्मानयन्मानसे ॥१॥ आचार्य गुरुसिद्धसेनमुनिपं वाचा सुराचार्यकम् , सत्सधं च पथि स्थितं गुरुगुणं सर्वशपुत्रेति वै । श्रीमद्वन्दिजनैः सुधासुवचसा संस्तूयमानं पथि, गच्छन् हस्तिवरे स्थितो मदभृतोऽद्राक्षीन्नृपो विक्रमः ॥२॥ तत्साश्यपरीक्षणाय कुरुते तेभ्यो नति मानसे, श्रीपूर्वश्रुतविद्यया गुरुवरा ज्ञात्वा तदीयां नतिम् । तस्मै विक्रमभूमते स्म ददते श्रीधर्मलाभाशिषम्, सर्वज्ञा इति निश्चिकाय मनसा तेऽतो नृपो विक्रमः ॥३॥ आचार्याधिपसिद्धसेनमुनिभिः सत्स्वर्णकोटिं तदाऽऽकायैतान नृपविक्रमेण सदसि प्रोद्दीयमानां न ताम् । गृह्णानेरुपदिश्यते स्म नृपतिः पृथ्वीं कुरुष्वानृणा,.... यः श्रुत्वेति सुदेशनामृणभरान्मुक्तं जगत् सोऽकरोत् ॥४॥ श्रीसिद्धसेनविबुधेन्द्रवरोपदेशात्, श्रीजैनधर्ममुररीकृतवान् वरेण्यम् । । चिन्तामणिं सुरकरादिव पुण्यलभ्यम् , तं स्फारितं प्रकृतवान् भुवि विक्रमार्कः ॥५॥ यशश्चन्द्र द्वेष्टि प्रतिहसति धैर्य शिखरिणम्, प्रतापो मुष्णाति ग्रहपतिविभूर्षा खरतरः । क्षमा साधोस्तुल्या प्रतिजयति रामं नयविधिः, गुणा यस्यासंख्या भुवि स जयताद्विक्रमनृपः ॥६॥ सुपर्वमालाकमनीयवासकः सुधर्मशाली रमणीयरूपकः । सन्नन्दनो यो जयवाहिनीयुतो हरिय॑था विक्रमराट् स्म राजते ॥७॥ दासरामारमादीप्र! प्रदीप! स्वरुचा सदा। चारुस्वप ! मारमाराऽर्हद्भक्त ! जय विक्रम ! ॥८॥ [આ અષ્ટકમાં આ છેલ્લો-આઠમે લોક કલશબંધમાં રચવામાં આવ્યું છે. આની સમજૂતી માટે આ પૃષ્ઠની પાછળનું કલશબંધનું ચિત્ર જુઓ.] For Private And Personal Use Only
SR No.521597
Book TitleJain_Satyaprakash 1944 01 02 03
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1944
Total Pages244
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy