________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[९७२]
जैन सत्य IN
====[१५५ पाय पायं सुचिरमचिरापुत्रनेत्रामृतं तत् शृङ्गं तुझं कविकुलकिरीटैरदर्शि प्रजीर्णम् ॥ ४९ ॥ जीर्णोद्धारणशेषशैखरमिदं चैत्यस्य शान्तिप्रभोः पूर्णीकारयति स्म कार्यमखिलं व्याख्यानगीर्गर्जया । विख्यातो भुवि पञ्चविंशतिमितं तस्मिन् सहस्राङ्कितं श्रीमल्लब्धिसूरीश्वरो विजयतां कल्याणमालाकरः ॥ ५० ॥
इयद्धरस्थामृतलालकेन
धनीश्वरेणाकृतरम्यमूर्तिः । नष्टस्मरारेः कमलाख्यसूरे
महामहिम्नो गुणकैगरिम्न ॥ १ ॥ चैत्यं शान्तीश्वरस्य प्रमदभरजनैस्तोरणैस्तैः सुधाभीरम्यं शृङ्गारितं तन्नवरुचिरसिचर्यमण्डपोऽमण्डि बाह्यम् । लोकाः स्तोकेतराद्रामिमिलुरतिमुदाह्वानतः सूरिमृर्त्या अर्हम्मूर्तिप्रतिष्ठानुपमपदमहे दुर्गदुर्दोपरिष्ठात् ॥ ५२ ॥ पन्यासे भुवनाभिधे गणिवरे श्रीवाचकाख्यं पदं पन्न्यासं पदीं जयन्तविजये श्रीमत्प्रवीणाभिधे । क्रियाकाण्डरुचौ बुधे गुणिपदं चैतन्नवीनाभिधे विद्वान्सो निदधुर्महोत्सवपुरं श्रीलब्धिसूरीश्वरः ॥ ५३ ॥ थीमत्सरिसुमूर्तिमद्भुतमयीं पूते मुहूर्तेऽनघेडहम्मूत्तीरपि रामणीयकतमाः सौवर्णकान्तीश्चताः पासक्षेपपुरस्सरं सुखदसन्मन्त्रं प्रतिष्ठापया-- मासुः कोविदलब्धिमुरिमृगपाः शिष्यरशेषैः सह ॥ ५४ ॥
(प्रशस्तिः ) आत्मानन्दसुपट्टविष्णुहृदये श्रीवत्सशृङ्गारभाः सञ्जाता मिखिलागमज्ञकमलाचार्येश्वरा निःस्पृहाः तत्पट्टोदयशैलशृङ्गतिलकाः श्रीलब्धिसूरीश्वराः तच्छिष्या भुवनाख्यवाचकवणा जाता पवित्रव्रताः ॥ ५५ ॥ तच्छिष्याणुकतुल्येन भद्रङ्करेण गुम्फिता । सेलादुर्गस्तुतिर्यावज्जीयात् सूर्यामृतधुती ॥ ५६ ॥
(पूर्णम् )
For Private And Personal Use Only