________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી જૈન સત્ય પ્રકાશ
[१३ विकल्पकल्पपादपं त्वरैय कामितप्रदं, सुभव्यमानसोत्पलप्रफुल्लने दिवाकरम् ॥ ४ ॥
वे कदम्ब० जलावगाहनागतप्रशस्तलोकराजिता, सदा पवित्रशाश्वताचलोपकण्ठवाहिनी । सरिद्वरा यदुत्तरा विभाति पूर्वगामिनी, सदा जगत्त्रयप्रसूर्महीतलेव विस्तृता ॥ ५ ॥
स्तुवे कदम्ब० सुरत्नभेषजान्विते कदम्बतीर्थ ईरिते, सुराष्ट्रदेशजाः प्रजाः कथं भजन्ति दीनताम् । विनाशयन्ति तामस बहिर्गतन्नु भास्करास्स्वदेहमन्दिरामतिं विहन्ति हन्तितामसम् ॥ ६ ॥
वे कदम्ब शुभोत्तरायणे रवौ सुदीपपर्ववासरे, जना मुदाऽत्र मण्डलं न्यसन्ति भावपूर्वकम् । अमोघमस्ति दर्शनं समग्रविघ्नदारकं, तदीयवृष्टिगोचरास्सुरा भवन्ति निश्चितम् ॥ ७ ॥
स्तुवे कदम्ब० सुरत्नकामधेनवो यथेष्टसिद्विदायका, दरिद्रतापिशाचिनी विलोक्य यं सदा गता । सुनतमौषधादयस्स्वदीपभाचयैश्शुभैरभाग्यमन्दिरात्तथा तमो हरन्ति दीनताम् ॥ ८ ॥
स्तुवे कदम्ब० बलाहकेन वेष्टितप्रभाकरांशुवन्नृणां, न गोचरा भवन्ति ते क्रमेण कालहानितः । अनेकरस्नसंचयो नगाधिराडयं सदा, पुनर्भृशं प्रसिद्धतां गमिष्यति प्रभावतः ॥ ९ ॥
स्तुवे कदम्ब ॥ प्रशस्तिः ॥
॥ शार्दूलविक्रीडित वृत्तम् ॥ श्रीशत्रुञ्जयतीर्थराजतिलक श्रीसंप्रति तीर्थपं,
जीवानामभयप्रदानकुशलं श्रीनेमितीर्थेश्वरम् । स्मृत्वेमां रचितः प्रभावकलितां वाचस्पतिस्संयतो,
लोकानां हृदये मुदं वितनुतां स्तोत्रस्रगेषा चिरम् ॥ १ ॥ कैवल्यालयरोहणे क्षितितलात् सोपानपद्यावली
मादायाशु मुदापवर्गकमला श्रेयस्करी प्राप्यताम् नित्यानंदनसंपदे भवतु मे शैलेशचूडामणि
स्सत्वेभ्यो विदधातु कामितफलं कादंबकस्तीर्थराटु ॥२॥
For Private And Personal Use Only