________________
किं तू जनस्य अनुवर्तनतां करोति, लिपिशालमागतु सुशिक्षितु शिष्यणार्थम् । परिपाचनार्थ बहुदारक अग्रयाने, अन्यांश्च सत्त्वनयुतानमृते विनेतुम् ।। 2 ।। लोकोत्तरेषु चतुसत्यपथे विधिज्ञो, हेतुप्रतीत्यकुशलो यथ संभवन्ति। यथ चानिरोधक्षय संस्थित् शीतिभाव:, तस्मिन्विधिज्ञ किमथो लिपिशास्त्रमात्रे।।3।। नेतस्य आचरिय उत्तरि वा त्रिलोके, सर्वेषु देवमनुजेष्वयमेव ज्येष्ठः। नामापि तेष लिपिनां न हि वित्य यूयं, यत्रेषु शिक्षितु पुरा बहुकल्पकोट्य: ।। 4 ।। सो चित्तधार जगतां विविधा विचित्रा, एकक्षणेन अयु जानति शुद्धसत्त्वः । अदृश्यरूपरहितस्य गतिं च वेत्ति, किं वा पुनोऽथे लिपिनोऽक्षरदृश्यरूपाम् ।। 5 ।।
इत्युक्त्वा स देवपुत्रो बोधिसत्त्वं दिव्यैः कुसुमैरभ्यर्च्य तत्रैवान्तर्दधे। तत्र धात्र्यश्च चेटीवर्गाश्च स्थापिता अभूवन् । परिशेषा: शाक्या: शुद्धोदनप्रमुखा: प्रक्रामन्त: ।।
अथ बोधिसत्त्व उदगसारचन्दनमयं लिपिफलकमादाय दिव्यार्षसुवर्णतिरकं समन्तान्मणिरत्नप्रत्युप्तं विश्वामित्रमाचार्यमवमाह — कतमां मे भो उपाध्याय लिपि शिक्षापयसि । ब्राह्मीखरोष्टीपुष्करसारिं अंगलिपिं बंगलिपिं मगधलिपिं मंगल्यलिपिं अंगलीयलिपिं शकारिलिपिं ब्रह्मवलिलिपिं पारुष्यलिपिं द्राविडलिपि किरातलिपिं दाक्षिण्यलिपिं उग्रलिपि संख्यालिपिं अनुलोमलिपि अवमूर्धलिपिं दरदलिपि खाष्यलिपिं चीनलिपिं लूनलिपि हूणलिपि मध्याक्षरविस्तरलिपिं पुष्पलिपि देवलिपिं नागलिपिं यक्षलिपिं गन्धर्वलिपिं किन्नरलिपिं महोरगलिपिं असुरलिपिं गरुडलिपि मगचक्रलिपिं वायसरुतलिपिं भौमदेवलिपिं अन्तरीक्षदेवलिपिं उत्तरकरुद्वीपलिपिं अपरगोडानीलिपिं पूर्वविदेहलिपि उत्क्षेपलिपि निक्षेपलिपिं विक्षेपलिपि-प्रक्षेपलिपिं सागरलिपिं वज्रलिपि लेखप्रतिलेखलिपि अनुद्रुतलिपिं शास्त्रावर्ती गणनावर्तलिपिं उत्क्षेपावर्तलिपि निक्षेपावर्तलिपिं पादलिखितलिपि द्विरुत्तरपदसंधिलिपिं यावद्दशोत्तरपदसंधिलिपिं मध्याहारिणीलिपिं सर्वरुतसंग्रहणीलिपि विद्यानुलोमाविमिश्रितलिपिं ऋषितपस्तप्तां रोचमानां धरणीप्रेक्षिणीलिपिं गगनप्रेक्षिणीलिपिं सर्वौषधिनिष्यन्दा सर्वसारसंग्रहणीं सर्वभूतरुतग्रहणीम् । आसां भो उपाध्याय चतुष्षष्टीलिपीनां कतमां त्वं शिष्यापयिष्यसि? अथ विश्वामित्रो दारकाचार्यो विस्मित: प्रहसितवदनो निहतमानमददर्प इमां गाथामभाषतआश्चर्यं शुद्धसत्त्वस्य लोके लोकानुवर्तिनो, शिक्षित: सर्वशास्त्रेषु लिपिशालामुपागतः।।6।। येषामहं नामधेयं लिपीनां न प्रजानमि, तत्रैष शिक्षित: सन्तो लिपिशालामुपागतः ।। 7।। वक्त्रं चास्य न पश्यामि मूर्धानं तस्य नैव च, शिष्ययिष्ये कथं ह्येनं लिपिप्रज्ञाय पारगम् ।।8।। देवदेवो ह्यतिदेव: सर्वदेवोत्तमो विभुः, असमश्च विशिष्टश्च लोकेष्वप्रतिपुद्गल: ।।9।। अस्यैव त्वनुभावेन प्रज्ञोपाये विशेषत:, शिक्षितं शिष्ययिष्यामि सर्वलोकपरायणम् ।। 10।।
इति हि भिक्षवो दश दारकसहस्राणि बोधिसत्त्वेन सार्धं लिपिं शिष्यन्ते सम। तत्र बोधिसत्त्वाधिस्थानेन तेषां दारकाणां मातृकां वाचयतां यदा अकारं परिकीर्तयन्ति स्म, तदा अनित्य: सर्वसंस्कारशब्दो निश्चरति स्म। आकारे परिकीर्त्यमाने आत्मपरहितशब्दो निश्चरति
प्राकृतविद्या जुलाई-सितम्बर '2001
00 57