________________
येन हृदि श्रुतदेवी, ध्यायते तेन रुध्यते कर्म। कलिललितं विनिवार्य, पीयूषमास्वाद्यते कामम् ॥८१।। तैः संसारोऽघं च, प्लुष्यते, बध्यते नैव धर्मोऽपि। यैर्भावेन प्रवचन-देव्याः, क्रियते स्तुतिः श्रेष्ठा ।।८२।। वाग्देवता विजयतां, या भावात् प्रसाद्यते निजैर्भक्तैः । अनुरुध्यते स्तवाद्यैः, पूजाद्यैाह्यते तपसः ॥८३।। भक्त्या विहितायत्ता, मोहान्न ज्ञायमानरूपाऽपि। सर्वपदार्थविषयकं, बोधं मे यच्छताद् देवी ।।८४।। श्रुतदेवता प्रसिद्धा, लोकत्रयमातृत्वमहोल्लासा। मनसा क्रियया सेव्या, किमपि विधेयं समादिशतु ।।८५।। अतिभक्त्या निश्चलया, क्रियमाणा निजवशे सुरी वाणी। मोहसमुद्रे बेडा, क्रियमाणा मोक्षकामेण ।।८६।। विनयपरं संसारे, विदधाना विनयरिक्तकं सर्वम्। प्रतीर्धमाणसंसार-सेतूपमचरणरेणुकणा ॥८७।। आसाद्यते सुकीर्तिर्ज्ञानं प्रोज्जवलं सकलविषयम् । कामदुघा लक्ष्मीरपि, तैः सर्वैः सर्वदा ध्येया ।।८८।। जानानैरपि सर्वं, विबुधैरज्ञायमाननिजरूपा। अणिमादिसिद्धिकलितैरपि नो ज्ञायते सम्यक् ।।८९।। प्रारब्धे किल मङ्गल-कार्ये प्रगृहीतनामधेया या। स्तवनैर्भक्तोद्गीतैः, स्नेहवती भक्तिगृह्या च ।।९०।। अमरीपूजितपादा, स्तोत्रैर्विषयीकृता च श्रुतदेवी। प्रशमापूर्णनराधिम-वृषभस्याऽऽसीत्तु प्रत्यक्षा ।।९१॥ ततोऽस्खलितया वाचा, सुधावृष्ट्येव सुपूर्णधाराभिः । इत्युक्तं श्रुतदेव्यां, समधिकवात्सल्यशालिन्या ॥९२।। देवेन्द्रो निश्चिन्तं, विहरन्नन्तः पुरे दिवानक्तम्। पृथिवीस्वामिन् ! बान्धव-भावं प्राप्तस्त्वमिन्द्रस्य ।।९३।। हंहो मानिन् ! राजन् !, भगवन्निति यं सदा भवान् स्तौति । रक्ष्यो भव तेन त्वं, जिनपतिना मेदिनीमघवन् ॥९४।।
13