SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सप्रणयं स्वयमागतवनितानां भवति नैव संयुक्तः। ज्ञानश्रीरागच्छति, तस्य विवेकोऽपि नाऽपैति ॥११॥ प्रत्यागच्छति न भवेऽप्रत्यागतमानसो युवतिसङ्गे। शान्तमनाः प्रतिशान्तैः, लोकः कथितोपशममार्गः ।।१२।। अतिकुशलानां रमणे, रममाणानां च केऽपि रमणीनाम् । किलिकिञ्चित-मोट्टायित-कुट्टमितैर्नाऽपि मुह्यन्ति ।।१३।। कमनीयमकमनीयं, तुल्यं रामाश्च हन्त रममाणाः । वामा अनल्पकामाः, क इच्छेद् भावतो विद्वान् ।।१४।। मायाविनीरतीव, चपलस्वान्ता गभीरतारहिताः । रमणीर्द्रष्टुं त्वरते, कोऽपि न विद्वानिहाऽमुत्र ।।१५।। त्वरयन्त्यत्वरमाणं, त्वरितमदनिकाः स्वयं रमन्तेऽपि। अहहं हरिद्रारागाः, स्विन्नस्वेदैनिजैरङ्गैः ।।१६।। स्वेदपृषत्तनुराजी, क्षरन्निपानेव संक्षरद्रमणा। धीराननार्द्रहृदयानपि सत्त्वाच्चालयति महिला ।।१७।। उच्छलित-परिस्फाटित-भेकोपमवराङ्गसक्तानाम् । शक्तिर्विगलति नश्यति, कान्तिर्बुद्धिस्ततो याति ।।१८।। दलतु तदीयं हृदयं, शतकृत्वो दलतुं बुद्धिकौशल्यम्। लेढीव वलितभक्तं, यः कान्तौष्ठं वहल्लालम् ।।१९।। अहतविशालाफलवद्, रम्या रामा अनष्टकटुताकाः। रे नष्टहृदय ! ताभिर्मार्गाद् भ्रशितं किमुच्चरसि ॥२०॥ अभ्रष्टदूषिकाक्षं, विपतिकफमाननं महेलानाम्। तत्रापि रजति मूढो, नष्टविवेको विहतबुद्धिः ।।२१।। शीलं गलति प्रयान्ति, बुद्धिगुणाः संयमोऽपि नोपैति । सत्यं श्रुतं च नश्यति, रमणीसंसक्तचित्तानाम् ।।२२।। स्त्रीसङ्गेन विवेको, नाशं यातीति गुरूभिरुपदिष्टम् । तस्मात्तत्त्वद्रष्टा, पश्यति कस्ता इति ब्रूमः ।।२३।। ये भाविद्रष्टारो, द्रष्टारो भूतवर्तमानस्य। दृष्ट्वा तैः खलु भणितं, मा स्त्रीः पश्यत गरलवल्लीः ।।२४।। 63
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy