SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ मर्म नर्म - कल्याणकीर्तिविजयः सर्वकारीये कार्यालये फलकमेकं लम्बितमासीत - अङ्गुष्ठमुद्रां दत्त्वा मषी न केनाऽपि भित्तौ प्रोञ्छनीया - इति । तस्याऽध एव केनापि लिखितं - योऽपि सूचनामेतां पठितुं शक्तः सोऽङ्गुष्ठमुद्रां किमर्थं वा दद्यात् ? पिता किमपि कार्यं सम्यङ् न करोषि रे, पुदीनमानेतुं प्रेषितस्त्वं कुस्तुम्बरी क्रीत्वाऽऽगतः खलु ? मूर्खस्त्वं गृहादेव निष्काशनीयः। पुत्रः पितः, चलतु, आवां द्वावपि सहैव गृहान्निर्गच्छावः । यतो माता तु - एषा मेथिकेति कथयति !! कीदृशोऽयं युग इति न ज्ञायते । अद्य प्रातरेव कश्चन जनो मां मिलितः । स मां पृष्टवान् – अपि मां प्रत्यभिजानाति भवान् ? अहं शिरः कण्डूयन् कथितवान् - न स्मरामि सम्यक् ...आवां कुत्र वा मिलितौ ? फेसबुक् इत्यत्र.... ? वाट्स्-एप-इत्यत्र ? अन्यत्र वा कुत्रचित् ? स गर्जन्निव कथितवान् – भोः, आ दशभ्यो वर्षेभ्यो भवतो गृहस्योपरिष्टादेव वसाम्यहम् ! कस्मिंश्चिदपराधे द्वयोमहिलयोश्चतुर्दशवर्षमितः कारावासो दण्डरूपेण समादिष्टो न्यायालयेन । द्वे अप्येकस्मिन्नेव कारागृहापवरके तावन्तं कालं स्थिते । कारावाससमाप्त्यनन्तरं द्वे अपि बहिरागते । स्वं स्वं गृहं गच्छन्त्योश्च तयोरेकाऽन्यस्यै कथितवती - अवशिष्टं वृत्तं दूरवाण्या कथयिष्यामि !! **** 59
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy