________________
कथा
संस्कारप्रपा
___ - मुनिः अक्षयरत्नविजयः (१) कदापि चिन्तितं मरणम् ? चिन्तकाः कथयन्ति यदस्माभिः स्वजीवने द्वे स्मरणे नित्यं कर्तव्ये - १. उपकारस्मरणं, २. मरणस्य स्मरणम् । उपकारस्य स्मरणेन मानवः प्रगतिवान् भवति, इतो मरणस्य स्मरणेन मानवः पापकार्येभ्यो विरमति । अस्याऽनुसन्धाने प्रस्तूयते कथेयं विदेशीया -
अल्फ्रेडनामकः कश्चित् स्फोटकाग्निचूर्णस्य संशोधकः । एकदा प्रभाते वर्तमानपत्रं गृहीतं तेन । वर्तमानपत्रे प्रमुखसन्देशं पठित्वा नितरां विस्मितवान् सः । यतः प्रमुखसन्देश एतादृश आसीद् यद् ‘अल्फ्रेडनोबलस्य मरणम्'।
अल्फ्रेडश्चिन्तितवान् – 'अहं तु स्वस्थः सन् जीवामि । ततः केन मम मृत्युसन्देशः प्रसारितः?' इति।
तदनु कौतुकेन स्वमृत्यसन्देशं पठितुमारब्धः सः । सन्देशं पठित्वा तद्हृदयं दुःखाऽनुभूतिं कृतवत् । सन्देशेऽलिख्यत यद् ‘स्फोटकाग्निचूर्णसंशोधकस्य मृत्युसर्जकस्य वैज्ञानिक-अल्फ्रेडस्य मरणम्।'
___सन्देशं पठित्वा प्रहृत इव स्तब्धः सञ्जात अल्फ्रेडः - 'अहो ! किमिदं महादुःखदम्? मम जीवनविरामपश्चाज्जनाः 'मृत्युसर्जको वैज्ञानिकः स' इति स्मरिष्यन्ति माम् । जगतः सुखार्थं किञ्चिदपि शुभं न कृतं मया, अत एव फलमिदं हीनं लप्स्यते । किञ्च, मया तु स्फोटकाग्निचूर्णस्य संशोधनं कृत्वा जगतो दुःखार्थमेव कार्यं कृतम् । किन्तु, अतः परं शोभनानि सुखप्रदानि सत्कार्याणि कर्तव्यानि मया । येन जगन्मां स्मरेत् सुविधम् ।'
ततः परमल्फ्रेडनोबलेन बहूनि सुखप्रदानि शान्तिप्रदानि शुभकार्याणि जगते कृतानि । विश्वशान्त्यर्थं यैर्मानवैः सत्कार्याणि कृतानि, तेभ्यो मानवेभ्यः पारितोषिकान्यपि प्रदत्तानि तेन । तस्य स्मृत्यर्थमद्याऽपि 'नोबल पारितोषिकाणि प्रदीयन्ते।
46