________________
"हे मातः ! हे पितः ! भवदाशीर्वादेन देशाटनहेतवे समित्रकोऽहं निर्गतः । मार्गे यद् यदप्यानुकूल्यं प्रातिकूल्यं चोपस्थितं तत् तच्च सर्वमप्यतिक्रम्य यावद् दिव्यसङ्केतेनाऽऽश्रमपदमुपागमम् । तत्र च दिव्यसाम्राज्योपलब्धये कुलपतिना सहयोगः प्रदास्यते । अतो भवतामनुमतिं ग्रहीतुमधुनेहाऽऽगतोऽस्मि ।
पितरावूचतुः - "हे वत्स ! इहैवाऽस्मदीयं विशालं राज्यं वर्तते, तदनुपालय मुधाऽनावश्यकं कष्टं किमर्थं सोढव्यम् ? अत इहैव तिष्ठ, क्वाऽपि मा गाः”।
सिंहसेन उवाच - "हे पितः ! भवता शोभनमुक्तं, किन्तु यदहं वच्मि तन्निबोधत । इह तावत् साम्राज्यं द्विविधमस्ति, सोपाधिकं निरुपाधिकं च । तत्र भवयामुक्तं साम्राज्यं पुण्यानुगामी, सप्रतिद्वन्द्वं सोपाधिकं च वर्तते । अस्य पालने प्रतिक्षणं चिन्ता सङ्क्लेशः कष्टं च स्युः । किन्तु यन्निरुपाधिकं साम्राज्यं तत्र न काऽप्येतादृशी बाधा" । ततश्च कुलपतिना यद् यनिर्दिष्टं, तत् तत् सर्वं पितृभ्यां निवेदितं, कथितं च - "भवतोरनुमतिमिच्छामि । यया दिव्यं साम्राज्यं प्राप्तुं सफलो भवेयम्"।
पितृभ्यां अपि नैकप्रकारेण हेतूदाहरणाभ्यां प्रस्तुतराज्यसञ्चालनाय बोधितः सः, तथाऽपि दिव्यसाम्राज्याभिलाषुकः सिंहसेनो वदति स्म यद् - “इदं राज्यमनुजाय देयम्, अहं त्वाश्रमं गत्वा यदुचितं तद् विधास्यामि"।
सिंहसेनेन पितृभ्यां परिजनैश्चाऽनुमतिरुपलब्धा, इति विशिष्टज्ञानेनाऽवगम्य कुलपतिनैको मुनिकुमारको दिव्याञ्जनेन साकं सिंहसेनानयनाय प्रेषितः । सोऽपि मुनिकुमारकोऽयोध्यां समेत्य राजभवनमुपागम्य शुभाशीर्वचनं दत्त्वा कुलपतिना प्रोक्तमादेशवचनं निवेदितवान्।
__मुनिकुमारवचनं निशम्य राज्ञा परिजनायोक्तं यद् - "अयं सिंहसेनो गृहे न स्थास्यति, भाविभद्रत्वाद्दिव्यं साम्राज्यं लप्स्यत एव, अतोऽस्माभिर्यथायोग्यं सहयोगी दातव्य इत्यहं मन्ये । भवतां योऽप्यभिप्रायः स्यात् स निवेदनीयः” । क्षणं यावत् परस्परं संवादं विधाय सर्वैः स्वनिर्णयो राज्ञे निवेदितो यद् - "भवद्भिरनुमोदितं सिहसेनाभिप्रायं वयमप्यनुमोदयामः”।
राज्ञा नगरे पटहोद्घोषणं कारितं यद् - "दिनद्वयेनैव राजकुमारः सिंहसेनो दिव्यसाम्राज्योपलब्धये प्रयाणं विधास्यति ततः सर्वैः पौरजनैः समेतव्यम् ।
पुण्योदये सुखे मग्नैर्गच्छन् कालो न ज्ञायते। पितृभ्यां सह सिंहस्य, तद्वद् दिनद्वयं गतम् ।।१०५।।
अथोपस्थिते प्रयाणदिवसे शुभवेलायां मातपित्रादिपरिजनेन पौरजनैश्च परिवृतः सिंहसेनो मङ्गलतूर्यनादेन साकं राजमन्दिराद् निष्क्रमणं व्यधात् । क्रमशो राजमार्गेण व्रजन्
31