________________
आश्रममैक्षत । तत्र च अशोकाम्र-वट-निम्बेत्यादिवृक्षैर्घनीभूतं परिसरमवलोक्य मेदुरमनाः सिंहोऽन्तः प्रविश्य यावत् पश्यति स्म, तावत् तत्र नैके मुनिकुमारा दृष्टिपथं आगताः। तत्र केचित् कुमारका जाति-मालती-कुन्द-पद्मादिपुष्पावचयनं कुर्वन्ति स्म, केचित् पुनराश्रमोद्याने जलसिञ्चनं कुर्वन्ति स्म, केचित्तु मार्गपरिमार्जनं विदधति स्म। केचिद् देवमन्दिरे देवार्चनं कुर्वन्ति स्म, केचिद् विद्यागुरुसमीपे विद्यार्जनं कुर्वन्ति स्म, केचिद् यज्ञहेतवे समिधमानयन्ति स्म, केचित् कुलपतिं शुश्रूषन्ति स्म, निर्भीका आश्रम-मृगाश्चाऽत्र तत्र भ्रमन्ति स्म । अत्र सर्वेऽपि निर्भयाः स्वस्थाः सुखिनश्च दरीदृश्यन्ते । सिंहस्त्वाश्रमोद्यानं पश्यन् क्रमशः कुलपति-निवासमगात् । तत्र सविनयं कुलपति प्रणम्य समक्षमुपविवेश।
कुलपतिरपरिचितमपि भाविभद्र सिंहं शुभाशीर्वचनेन सम्भाव्य पृच्छति स्म – “कस्त्वम् ? कुत इहऽऽगतः ? क्व च गम्यते ?” नम्रीभूय सिंह उवाच - "हे परमर्षे ! सिंहसेनाभिधोऽहं राजपुत्रोऽस्मि । अयोध्यानगरीत इहऽऽगतोऽस्मि । विद्या-कला-शिक्षानन्तरं देशाटनं कर्तुं निर्गतोऽस्मि" । कुलपतिः प्राह - “विश्रम्यतां तावदिह कञ्चित् कालमित्युक्त्वा तापसकुमार उक्तो यद् - "राजकुमारो विश्रामकुटीरं नेतव्यः” । ततो स्नान-विश्राम-भोजनानन्तरं सायङ्काले कुलपतिसमीपमागत्य प्रणम्य चोपविष्टः । स्वकीयं च मनोभावं निवेदितवान् - “मदीयोऽयं मनोरथो यद् विशालसाम्राज्याधिपतिश्चक्रवर्ती भूपतिर्भवेयम् । ततश्च दिव्यसङ्केतानुसारमिह युष्मच्चरणसरोरुहयोरुपस्थितोऽस्मि । आदिश्यतां तावद् यदितः परं मया विधेयम्”।
सिंहसेनवचनं निशम्य कुलपतिः क्षणं चक्षुर्निमील्य ध्यात्वा चोवाच - “हे भद्र ! भवता कामयमानमिह जगति द्विविधं साम्राज्यं वर्तते - सोपाधिकं निरुपाधिकं च। तत्र सोपाधिकं राज्यं - यद् भवते पितुः सकाशात् लप्स्यते। किन्तु तत्र नैके उपाधयो भविष्यन्ति । तास्त्वेवं - कदाचित् कर्मसहयोगेन पराक्रमेण च वर्धिष्यते, कदाचित् प्रतिकूलपरिस्थितौ हानिं चाऽपि प्राप्स्यते। तथा च मन्त्रि-सेनापति-कोट्टपालादीनामानुकूल्येन स्वस्थतामनुभविष्यसि, तथैव तेषां प्रातिकूल्येन व्याकुलतामपि । अतोऽहं ते तादृशं दिव्यं राज्यं दिदृक्षुरस्मि यदुपलब्ध्यनन्तरं न काचिद्धानिर्न च काऽपि व्याकुलता। अपि तु सदा सर्वदा निराबाधतैव स्यात् । इह चाऽऽश्रमे विद्यमानाः सर्वेऽपि आबाल-वृद्धाः सज्जना इममेव दिव्यं राज्यं लिप्सवो विद्यन्ते । इतः पुरा नैके जना दिव्यराज्यं प्रापुः, सम्प्रति च लब्धुकामाः प्रयतन्ते, भविष्यत्काले च नैके जीवाः प्राप्स्यन्ति । अत्र न कोऽपि सन्देहः।
इत्येवंविधं कुलपतिवचनं श्रुत्वा सिंहसेनश्चकितः । एतादृशं दिव्यराज्यमभिलषन् स कुलपति प्रणम्य वक्ति स्म - “इदं साम्राज्यमुपलब्धं मया किं कर्तव्यम् ? केन प्रकारेण च स्थातव्यम्?”
कुलपतिरुवाच - "हे भद्र ! इहाऽऽश्रमे इदानीं कतिपया दिवसा निर्गमनीयाः, तथा चेह
29