SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सिंहसेनोऽथ द्यूतेन, धनमावर्ण्य भूरिशः । तुष्टो ददाति वारायै, “गणिका हि धनप्रिया" ।।९१।। द्यूतकारैः समं सिंहो, रममाणः समित्रकः । हारितो बहुशो द्रव्यमधर्मणः बभूव च ।।९२॥ हारितो लब्धुकामेन, द्यूतक्रीडां पुनः पुनः। करोति सिंहसेनोऽथ, “विजिगीषा तु दुस्त्यजा" ।।९३।। तथाऽपि त्यक्तुकामेन, सिंहेनोत्थीयते यदा। वञ्चका द्यूतकारास्ते, प्रोचू रन्तुं पुनस्तदा ।।९४।। उवाच फेरुकः सिंह, सकृत् क्रीडां विधीयताम् । यदि जयस्तदाऽस्माकं, सर्वं द्रव्यं मिलिष्यति ॥९५।। जानामि सिंह ! सौभाग्यं, त्वत्समं नास्ति कुत्रचित् । इति श्रुत्वाऽथ सिंहोऽपि, द्यूते द्रव्यं पणितवान् ।।९६।। किन्तु दुर्भाग्ययोगेन, तदाऽपि स पराजितः। "कुसङ्गो व्यसनं चैव, सर्वापदास्पदं मतं” ॥९७।। [अनुप्रासालङ्कारः] सिंहसेनं समित्रं च, बन्दीकर्तुमथोद्यताः । मृगवत् पारधिं प्रेक्ष्य, पलायितौ तदा ततः ॥९८।। धावन्तौ तौ वनं प्राप्तौ, दृष्टं देवालयं यदा। तदोचे सिंहसेनोऽत्र, यापनीया निशात्वियम् ।।९९।। यस्मात् श्रान्तोऽस्मि हे मित्र !, भयं चाऽत्र न विद्यते। तस्माद् देवालये देवं, नत्वा विश्रम्यते मुदा॥१००।। इति ध्यात्वा ततस्तत्रोपविष्टौ देवमन्दिरे। भयभ्रान्तौ यथा बालौ, स्वगृहे सुखमीयतुः ।।१०१।।[ उपमालङ्कारः] तत्रस्थां देवतां दृष्ट्वा, प्रभावातिशयाऽन्विताम् । वरदां पद्महस्तां च, दिव्यसौन्दर्यसंभृताम् ।।१०२।। प्रसन्नः सिंहसेनोऽथ, शब्दालङ्कारया गिरा। सद्भावभावसंयुक्तः, स्तौति तां देवतां मुदा ॥१०३॥[ युग्मम् ] स्तवनानन्तरं सुप्तौ, हर्षखेदसमाकुलौ। सिंहः संकेतितो रात्रौ, देव्या सन्तुष्टभावतः ॥१०४।। 27
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy