SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ उवाच भूपतिः सद्यः, कर्णयोरमृतोपमम्। स्वागतं स्वागतं पुत्र !, विष्टर उपविश्यताम् ।।६४।। वत्स ! वृद्धत्वमापन्न, इच्छामि धर्मसाधनम्। यतो “जन्मान्तरे धर्मादन्यः कोऽपि न संबलः” ।।६५।। धर्मो माता पिता बन्धुः, धर्मः सच्छर्मकारणम् । धर्मं विना सुखं क्वापि, न भूतं न भविष्यति ॥६६॥ अस्मिन्नसारसंसारे, दुर्लभं धर्मजीवनम्। सेवनीयः सदा धर्मो, यथा कल्पतरुर्भुवि ॥६७।।[ एकलुप्तोपमालङ्कारः] रोगशोकजलापूर्ण, दुःखौघ-मकरान्वितम्। भवाम्भोधिं परित्यज्य, सद्धर्मं तारकं श्रये ।।६८।।[रूपकालङ्कारः] भीम-कान्त-गुणैः साध्यं, राज्यभारं सुदुर्वहम्। योगक्षेमं विधातारं, नाऽन्यं पश्यामि त्वां विना ॥६९।। तस्मात् पुत्र ! कुलाधार !, राज्यभारं गृहाण भोः! । संविधेयं गुरोर्वाक्य-मिति सत्पुत्रलक्षणम् ।।७०।। पितृवाक्यं निशम्याऽथ, सिंहसेनेन भाषितम्। किञ्चिद्भमणकामोऽस्मि, स्वानुभव-विवृद्धये ॥७१।। ग्रन्थवद् ज्ञानदात्री या, वृद्धवत् स्वानुभावदा। आनन्ददा नवोढेव; सा दिग्यात्रा शुभोदया ।।७२।।[मालोपमालङ्कारः ] सङ्ग्रामे आयुधा यद्वत्, सचिवो राज्यपालने । उपकरोति यात्रायां, निशि दीपो यथा सुहृद् ।।७३।। अतो हि गन्तुकामोऽस्मि, दिग्यात्रायै ससुहृदम् । आगम्य च ततस्तात !, पालयिष्यामि शासनम् ।।७४।। भवदादेशतो देव!, गम्यते चाऽऽशिषा मया। आशीर्वादो हि वृद्धानां, साफल्यहेतुकः स्मृतः ।।७५।। अथ देवालये देवं, नमस्कृत्य शुभक्षणे। फेरुसेनाऽभिधानेन, याति स सुहृदा समम् ।।७६।। फेरुवत् फेरुसेनोऽयं, विषकुम्भं पयोमुखम् । अन्तर्वक्रो बहिः शुभ्रः, कपटेषु हि कर्मठः ।।७७।। 25
SR No.521043
Book TitleNandanvan Kalpataru 2019 11 SrNo 43
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy