________________
अभिराजगलज्जलिकात्रयम्
- प्रा. अभिराजराजेन्द्रमिश्रः १. अभिराजगलजलिका इदमासि दर्शनं नो, नैवाऽस्ति मन्त्रदीक्षा वैपर्ययी कबीरी?, अभिराजगलज्जलिका ॥१ यद्यात्मनेपदत्वं बुध्यसि, निजं विशोधय। गाङ्गं जलं पवित्रम् - अभिराजगलज्जलिका ॥२ शब्दच्छलं न चार्थच्छलनेव सम्प्रयुक्तम् । नूनं मुखस्फुटत्वं, अभिराजगलज्जलिका ।।३ ननु भुक्तमेव गीतं, प्रोक्तं च सोढमेव। न च गोपितं रहस्यं, अभिराजगलज्जलिका ।।४ स्वादादृते न किञ्चित्, मूकस्य यथा माध्वी। आस्वाद्यमप्यवाच्यम्, अभिराजगलज्जलिका ।।५ कांश्चिद् दुनोति कशया, तृषया विनक्ति कांश्चित् । कांश्चित् पृणक्ति सुधया, अभिराजगलज्जलिका ॥६ व्यर्थं विरच्य नो वै, शब्देन्द्रजालमेषा। उद्वेजयति नवीनान्, अभिराजगलज्जलिका ।।७ नेयार्थता न चास्यां, च्युतसंस्कृतेर्न दोषः। ऋगियं न सामधेनी, अभिराजगलज्जलिका ॥८ अनुशील्य यां निमेषैः सत्त्वं झटित्युदेति। तिष्ठति तमः प्रलीनं, अभिराजगलज्जलिका ॥९ सारस्वतं तपो यत्तप्तं नृणामरण्ये। कविना, तदाप्तिरेषा, अभिराजगलज्जलिका ।।१० १. कबीर की उल्टवाँसी
*****
12