________________
(६)
स्वगुणवत्तानिर्धारणम्
घटनेयं वैदेशिकी । कश्चन बालक एकस्मिन् औषधापणं प्राप्तः । तत्र सार्वजनिकं दूरभाषयन्त्रम् आसीत् । तच्च एकस्मिन् उच्चफलके स्थापितम् आसीत् । अतः स बालः कुतश्चिद् एकां रिक्तां मञ्जूषाम् आनीय ताम् आरुह्य च अभिप्रेतं क्रमाङ्कं योजितवान् ।
आपणिकः तं विलोकयन् तेन कृतं संवादं च शृण्वन् आसीत् ।
“महोदये ! भवत्या भवदुद्याने एकः तृणभूमिसमीकारक : (Lawn cutter) कर्मकर: आवश्यक: इति विज्ञापनं प्रदत्तमस्ति । अहं तदर्थं सिद्धः । किं भवती मां तदर्थं नियोजयेत् ?"
" मया तदर्थं कश्चन नियोजितोऽस्ति एतावता" ।
"महोदये ! अहं तस्माद् अर्धं वेतनं स्वीकृत्य भवत्याः कार्यं करिष्यामि " ।
" किन्तु अहं तस्य कार्येण अतीव सन्तुष्टा अस्मि" ।
“महोदये ! अहं भवत्याः उद्यानस्य कुट्टिमं पार्श्वस्थं च गमनपथमपि सम्मार्जयिष्यामि । एतेन भवदुद्यानं नगरे एव श्रेष्ठं भविष्यति” ।
"माऽस्तु भोः ! धन्यवादाः”
मन्दस्मितं कुर्वाणः सः ग्राहकं दूरभाषयन्त्र स्थापितवान् । तस्य सर्वमपि संवादं शृण्वन् आपणिकः तत्पार्श्वे आगत: ।
I
" वत्स ! मह्यं तव वर्तनं रोचते । तव विधायकं स्वभावम् उत्साहमपि च अनुमोदये अहम् । ततः च त्वां मम आपणे कार्यार्थं नियोक्तुम् इच्छामि' ।
" तस्य आवश्यकता नास्ति महोदय !" ।
"किन्तु त्वं कार्यार्थम् एव प्रार्थयमानः आसीत् खलु ?"
"नैव महोदय ! अहं मम कार्यकरणपद्धतिं परीक्षमाणः आसं, यत्र गृहे अहं कार्यं करोमि । वस्तुतः अहम् एव तस्याः महिलाया: गृहे कार्यं करोमि यया सह अहं दूरभाषाम् अकरवम्” I
श्रुत्वैतत् सः आपणिकः हृष्टः अभवत् तस्मै च उपहारं दत्तवान् ।
(इदम् अस्ति स्वगुणवत्तानिर्धारणम् । अस्माभिः स्वपरीक्षणं निरीक्षणं च कृत्वा अस्माकं दोषाः ज्ञातव्याः अपनेतव्याः च, तत: च स्वयमेव वयम् अग्रेसराः उन्नताः च भविष्यामः । अस्माकं विकासस्य कृते वयमेव उत्तरदायिन: न पुनः अन्ये ।)
३६