________________
"कियान् सुन्दरोऽयं दिवसः !" इति । अतो बस्-यानव्यवस्थापकस्तं पृष्टवान् - "भोः ! ईदृशं दुर्दिनं सुन्दरतया वर्णयन् भवान् अस्वस्थस्तु नास्ति खलु ?"
तेन जनेनोक्तं सोल्लासं - "अहं त्वानन्दातिरेकेणाऽस्वस्थो जातोऽस्मि, तथा भवानप्येवमेवाऽस्वस्थोऽभविष्यद् यदि भवता वर्षत्रयस्याऽन्धत्वान्निवृत्त्य सद्य एव दृष्टिः प्राप्ताऽभविष्यत्" ! ।
(३)
कष्टम् एकाऽऽसन्नप्रसवा गर्भवती स्त्री परीक्षणार्थं चिकित्सकपार्वे गता । "अस्ति किञ्चित् कष्टं वा ?" - चिकित्सकोऽपृच्छत् ।
सा सज्जैवाऽऽसीदापत्तीनामावल्या सह । “आम्" इति कथयित्वा तयैकैकशः स्वकष्टवार्ता कथयितुमारब्धा -
"अहं सम्यग् उपवेष्टुं न समर्था, यथेच्छं खादितुं न शक्नोमि, प्रायशः सर्वकालं मम वमनेच्छा भवति, शयनेऽपि मम प्रतिकूलता भवति, प्रस्रवणार्थं वारं वारं गन्तव्यं भवति, शिरःशूलं बहुशो भवति, गर्भस्थभ्रूणस्य पादप्रहारैः श्रान्ताऽहमधुना, तथा मम पादावपि शोफयुतौ सञ्जातौ" ।
चिकित्सकः सर्वमपि तस्याः कथितं सश्रद्धं ससमवेदनं च श्रुतवान् । ततः स तस्या आरोग्यविवरणसञ्चिकायां लिखितवान् - ___ "सर्वमपि सामान्यमस्ति, किञ्चनाऽपि कष्टं नाऽस्तीति" ! ।
-
.
(४)
पश्चात्तापः द्वौ जनौ पापकरणात् सन्तप्तौ गुरुसन्निधौ गतवन्तौ । “आवाभ्यामतीव दुष्कृत्यमनुष्ठितं प्रभो ! । आवयोरन्तःकरणमनुतप्तमस्त्येतेन । कृपयाऽस्य पापस्य क्षालनार्थं कञ्चनोपायं प्रदर्शयतु" ।
"भवद्भ्यां कीदृशं पापमनुष्ठितमिति कथयतां ननु" - गुरुरादिष्टवान् ।
प्रथमो जनोऽवदत् - "मया तावदेकं महत् निकृष्टं च पापमाचरितमस्ति, एतदर्थं चाऽहं भृशं व्यथामनुभवामि" ।
द्वितीयेनोक्तं - "मया हि बहूनि लघु-लघूनि दुष्कृतानि समाचरितानि । किन्तु सर्वाण्यपि तानि न तथा महत्त्वयुतानि निकृष्टानि वा" । गुरुः क्षणं यावत् किञ्चिच्चिन्तितवान् ततश्च कथितवान् -
३४