________________
फलिनो माकन्दा हता लोष्टैः पश्य वनेषु । स्थिताः कपित्थाः कुशलिनो धनिका अम्लफलेषु ॥२८॥ ये गुणिनस्ते पीडिता निर्गुणाश्च विहरन्ति । तुलसीक्षुपे न पत्रकं केर्कदलानि हरन्ति ॥२९॥ कविदर्पण बिहारिणा दोधकानि लिखितानि । सम्प्रत्यभिराजो लिखति सुरभाषायां तानि ॥३०॥ उच्चावचं स्वजीवनं यथा रहीमो वक्ति। तथाऽभिराजोऽप्याशयान् स्वीयानभिव्यनक्ति ॥३१॥
औषधपुटकं दोधकं मनोरुजामपहारि । उदरस्थं कुरुते झटिति निरामयं सुखकारि ॥३२॥ सृष्टिरियम्मे भासते भिक्षुकीव यस्मात् । दातारो ननु भिक्षुका भासन्ते तस्मात् ॥३३॥ अध्यापितमिह संस्कृतं ततः परं किन्नाम ? मुष्टौ मे मुक्तिः कृता दशरथनन्दन राम ! ॥३४॥ दारिद्येऽयाच्याव्रतं यत्नैः पालितमेव । स्वयं विनष्टा साऽधुना त्वत्कृपया हे देव ! ॥३५॥ नगरे-नगरे काशिका प्रतिनदि गङ्गावारि । मरणं सम्प्रति भारते क्वचिदपि मुक्तिद्वारि ॥३६॥ सह चैत्रेण गतो मधुः सम्प्रति गगनमुपेत्य । वह्निझरी वर्षति रविर्जगदसहायमवेत्य ॥३७॥ नन्वभिमानहरो हरिस्सपदि घनघटां प्रेष्य । तदवलेपमपि संहरति लोकविपत्तिमवेक्ष्य ॥३८॥ कर्तुमकर्तुमिहाऽन्यथाकर्तुं क्षमो न कोऽपि । ऋते जगन्नाथादहो निरङ्कुशो नहि सोऽपि ॥३९॥ एहि तिष्ठ कियदवधि भोः वससि, हेतुना केन ? पृष्टा विपन्मयेतिवत् बन्धो ! स्मिताऽननेन ॥४०॥ नाऽहं नोऽप्यर्धाङ्गिनी नो मे सुतोऽप्यवेक्ष्य । त्वामुद्विग्नस्तनुकमपि भगिनि ! निवस सुखमेत्य ॥४१॥