SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कथा बुद्धेश्चातुर्यम् - मुनिधर्मकीर्तिविजयः - एकेन श्रेष्ठिना मुख्यमार्गोपरि भोजनालयमुद्घाटितम् । तन्मार्गादनेके जना गच्छन्ति, किन्तु दौर्भाग्येन तत्र न कोऽपि तिष्ठति, ततः श्रेष्ठी दुःख्यासीत् । किं करवाण्यहमिति चिन्तयतः श्रेष्ठिनो मनस्येको विचारः उद्गतः । श्रेष्ठिना मित्राणामनेकानि 'टेक्सी'यानानि भोजनालयस्य बहिः मार्गोपरि स्थापितानि । श्रेणिबद्धानि टेक्सीयानानि निरीक्ष्य तन्मार्गाद् गच्छज्जनैरपि कुतूहलेन तत्र स्वयानानि स्थगितानि । तत्क्षणं श्रेष्ठिसूचनानुसारं पञ्चषा बालकास्तत्राऽऽगच्छन्ति । ते बालका जलार्द्रितवस्त्रैस्तानि टेक्सीयानानि संमार्जयन्ति । यानाधू संमाय॑ तिष्ठन्ति । ततस्तत्तद्यानस्य श्रेष्ठी कथयति - मित्राणि ! यानं सम्पूर्णतया संमार्जयन्तु । ___ बालका वदन्ति - श्रेष्ठिवर्य ! यानस्य सम्पूर्णमार्जने विलम्बो भविष्यति, अतो भवान् भोजनालये उपविशतु । श्रेष्ठिवर्यो यदा भोजनालये उपविशेत्तदैव त्रयो वितारकास्तत्र आगच्छेयुः । ते वदन्ति - श्रेष्ठिवर्य ! किमानयाम: - चायम् ? शीतजलम् ? तक्रम् ? उष्णदोसाखाद्यं वा ? इति । शनैः शनैः श्रेष्ठिन एष उपायः सफलीभूतः । * * * ७७
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy