________________
दिवाकरोऽपि तदुःख-मीक्षितुं न क्षमोऽभवत् । अस्ताचलमगात्तूर्णं, तमिस्रा समुपागमत् ॥२९८।। ततस्तरुतले ताभ्यां, मनसीत्थं विचिन्तितम् । हिंसका बहवः सन्ति, तत्कथं शयनं द्वयोः ॥२९९॥ . एकेनैवाऽत्र सुप्तव्य-मपरेण तु जाग्रता । । सुप्तो रक्ष्यो महाघोरेऽरण्ये हिंसकजन्तुतः ॥३००। (युग्मम्) एवं विमृश्य ज्येष्ठोऽवग्, भ्रातस्त्वं शेष्व पूर्वतः । त्वयि प्रबुद्धेऽहमपि, शयिष्ये रक्षितस्त्वया ॥३०१॥ कनीयानाह हे भ्रात-स्त्वमेव प्रथमं वने । स्वपिहीह ततः पश्चा-हं स्वप्स्यामि रक्षितः ॥३०२।। जिनदत्तः कनिष्ठस्य, भ्रातुर्वचनतः पुरा । सुप्तस्तत्र वने भीष्मे, जिनरक्षित-रक्षितः ॥३०३।। जजागार तदा ज्येष्ठं, भ्रातरं परिपालयन् । लघुः स्नेहपरीतात्मा, हिंस्राबिभ्यन्महावने ॥३०४॥ तस्मिज्जाग्रति तद्रात्रेः, प्रहरेऽतिगते सति । अलक्षितं ददंशाऽहि-जिनदत्तं सुनिद्रितम् ॥३०५।। प्राबोधयल्लघुभ्राता, ज्येष्ठं स्वं बान्धवं तदा । नाऽसौ प्रबुबुधे किन्तु, निद्रया हृतचेतनः ॥३०६।। ततोऽज्ञासीत् स मे भ्राता, गाढनिद्रां गतोऽधुना । एवं सुप्तस्य रजनी, निःशेषा समजायत ॥३०७|| अजायत तदाऽतीव-चिन्तासन्तानसङ्कुलः । निश्चेष्टं भ्रातरं दृष्ट्वा , व्यसदद् विजने वने ॥३०८।। रुरोद बहु हा दैव !, किं त्वया पितृबन्धुतः । वियोगो दुःसहोऽदायि, किं करोमि क्व याम्यहम् ? ॥३०९।। प्रपद्ये शरणं कं च, विललापतरां भृशम् । नाऽऽश्वासदायकः कश्चि-दासीत्तस्याऽऽपदागमे ॥३१०।।
६०