________________
श्रेष्ठिना चिन्तितं नूनं, गृहीता खलु तेन हि । कार्याकार्यविवेको हि, दरिद्रस्य न विद्यते ॥९०॥ सकुटुम्बं तमानेतुं, जिनदासं महाजनम् । धर्मदासोऽतिरुष्टात्मा, प्रेषयामास किङ्करम् ॥११॥ किङ्करस्य वचः श्रुत्वा, जिनदासोऽतिनिर्भयः । सकुटुम्बस्तदा गत्वा, धर्मदासमवोचत ॥९२॥ किमर्थमहमाहूतः, श्रीमता धर्मवेदिना ? । इति पृष्टः स्पष्टमाह, धर्मदासोऽपि तं प्रति ॥९३।। धर्मशास्त्रे श्रुतं पूर्वं, सर्वदेवमयोऽतिथिः । दरिद्रमपि भद्रं त्वां, ज्ञात्वाऽथ परमादरात् ॥९४|| मया सुपात्रबुद्ध्या त्वं, भोजनाय निमन्त्रितः । तथाऽपि त्वं महादुष्टः, शठोऽसीति प्रतीयते ॥९५।। भोजनानन्तरं यस्माद्-हेम्नः स्थालीं त्वमग्रहीः । श्रेयस्कामोऽसि चेद्देहि, स्वयमानीय तां मम ॥९६।। तदोक्तं जिनदासेन, वचो वज्राहतेन च । नाऽग्रहीषं तव स्थाली, सत्यं सत्यं वदाम्यहम् ॥९७।। निशम्य तद्वचो धर्मो, धर्मराज इवाऽपरः । कोधितस्तमुवाचेत्थं, महाधूर्ताऽसि पापधीः ॥९८।। न वदिष्यसि सत्यं त्वं, विना ताडनया स्वयम् । इत्युक्त्वा सगलग्राहं, पादाभ्यां तमताडयत् ॥९९।। निष्प्राणमिव सोऽकार्षी -ज्जिनदासं निरागसम् । अनुभूय पदाघातं, जिनदासेन चिन्तितम् ॥१००। नूनं पराङ्मुखे दैवे, मयैतत् स्वादुभोजनम् । भुक्तं तेनैव सञ्जाता, मम पादाभिघातना ॥१०१।। यदि सत्यं वदामीत्थं, न हि मन्येत तेन तत् । तत्तूष्णीं पादघातस्य, सर्वथा सहनं वरम् ॥१०२॥
४४