SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कारयानचालकः (न्यायाधीशं) महोदय ! अहं सुरां पीतवान् नाऽऽसम् । अहं तु तां पिबन्नासम् । न्यायाधीशः अहो ! एवं वा? तमुहं भवते मासस्य कारादण्डं नैव दास्ये, अहं केवलं त्रिंशतो दिनानामेव दण्डं दास्ये !! प्राघूर्णकः गृहस्वामी प्राघूर्णकः केयं महिला येदृशेन कर्कशस्वरेण गायति ? इयमस्ति मे धर्मपत्नी । क्षम्यतां कृपया । नैष दोषस्तस्याः स्वरस्य । सा यद् गीतं गायन्त्यस्ति तन्न शोभनम् । न जाने केन दुर्विदग्धेन लिखितं ननु तत् ! मया किल, भोः ! गृहस्वामी महिला बर्नार्ड शॉ (लण्डन-महानगरे बर्नार्ड शॉमहोदयस्य एकस्मिन् कार्यक्रमे -) शॉमहोदय ! कृपया कथयतु, किं मे वयः ? (सौन्दर्यप्रसाधनैः समाकीर्णां तां निरीक्ष्य) सुन्दराणां दन्तानामपेक्षया भवत्या वयोऽष्टादश वर्षाणि भासते, कुन्तलाकीर्णः केशपाशस्तु भवत्या वय ऊनविंशतिं वर्षाणि कथयति, तथा, भवत्याश्चित्ताकर्षकेण व्यवहारेण तु भवती चतुर्दशवर्षदेशीया प्रतिभाति । (सानन्दं) भवतोऽभिप्रायार्थं भूयांसमाभारं मन्ये । किन्तु कृपया सत्यं वदतु, किंवयस्काऽहं प्रतिभामि भवते ? (सस्मितं) मया कथितमेव ननु ! अष्टादश एकोनविंशतिश्चतुर्दश चेति त्रयाणामपि सङ्कलनं करोतु !! महिला बर्नार्डशॉ ७४
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy