SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ मर्म-नर्म कीर्तित्रयी एको यात्रिकः पथि सञ्चरन् कञ्चन वृद्धजनं पृष्टवान् - 'भो ! इतो ग्राम: कियद् दूरं विद्यते ?' किन्तु वृद्धः स तं नैव प्रत्युत्तरितवान् नाऽपि दृशाऽपि सम्भावितवान् । अतो यात्रिकः स्वमार्गेऽग्रेसरोऽभवत् । स यावद् विंशतिं वा पदान्यगच्छत् तावता वृद्ध उच्चस्तमाह्वयत् – 'शृणु भोः ! आगच्छाऽत्र' । साश्चर्यं स प्रत्यागत्य वृद्धं पृष्टवान् – 'किमस्ति भोः! ?' वृद्धः 'इतो ग्रामं गन्तुं घटिकामितः काल आवश्यकः' । यात्रिकः 'किन्तु, यदा मया पृष्टं तदा भवता किमिति नोत्तरितम् ?' वृद्धः यतः, अहं नैव जानामि स्म यत् कियता वेगेन भवान् चलितुं शक्तोऽस्ति !' इति । महाविद्यालये विद्यार्थिनः पाठयन् प्राध्यापको निबन्धमेकं पठित्वा पृष्टवान् – 'कथयन्तु मित्राणि ! निबन्धमेनमधिकृत्य भवतां मन्तव्यानि' । विद्यार्थिनः ‘अतीवाऽसुन्दरोऽयं निबन्धः । केन धीमुण्डनेन लिखितोऽयम् ?' प्राध्यापकः 'मयैव लिखितोऽयं भोः !। किन्तुं घण्टाद्वयस्य शिरोर्त्तिजनकपरिश्रमस्याऽनन्तरम् !'। (सर्वेऽपि सहासं तमुपहसितुमारब्धाः ।) प्राध्यापकः भवतामुपहासोऽयमुचित एव । मया गतरात्रौ एनं लिखता सर्वथा न विस्मृतं यथा पूर्णतयाऽशोभनोऽयं लेखो भवेत् । अतो विश्वसिमि यत् तादृशलेखने सफलोऽहं जात इति । . . . . . . किन्तु, . . . . . ममैतदेवाऽऽश्चर्यं यद् भवन्तः सर्वेऽपि कथमिव प्रत्यहमीदृशमेव निबन्धं केवलं मुहूर्तार्धेनैव लिखितुं शक्ताः इति !!' ७२
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy