________________
वाद्येनाऽनेन "हेप्पी बर्थ डे..." इति गीतं वादयतु कृपया ! मम भ्राताऽयं हृष्टो भविष्यति.... मातरं विना सर्वदाऽपि रोदिति स खलु !!' ।
एतच्छ्रुत्वा सारङ्गः सर्वाङ्गेषु प्रकम्पितः । यथाकथमपि स्वं संयम्य स उत्थितो गिटार-वाद्यं च तदावरणाद् बहिनिष्कास्य वादयितुमारब्धः -
"हेप्पी बर्थ-डे टु यु, हेप्पी बर्थ-डे टु यु, हेप्पी बर्थ-डे डियर..." प्रकोष्ठे स्थिताः सर्वेऽपि यात्रिणः सकरतालं तेन सह गातुं लग्नाः । बालिकावदनं प्रसन्नतापूर्णं जातम् । तया मृदुतया स्वभ्राताऽधोऽवतारितः । सोऽपि लघुबालः सङ्गीत-ताल-लयं श्रुत्वा हर्षातिरेकान्नर्तनमारब्धवान् ।
तावता बालिकया सारङ्गपार्वे समागत्य कथितं - 'स्वामिन् ! मातुर्मरणानन्तरं मे भ्राताऽयमद्यैदम्प्राथम्येन हसन्नस्ति !!' तदाकर्ण्य कथमप्यश्रूणि नियन्त्र्य सारङ्गेण वादनं समापितम् । ततो वाद्यं पुनरपि तदावरणे स्थापयता तेन चिन्तितं यद् – 'गिटार-वाद्यमिदं तेनाऽतीव शुभे मुहूर्ते क्रीतं ननु !' । ततश्च लघुबालकस्य मस्तके हस्तं प्रसार्य तेन सस्नेहं कथितं - 'हेप्पी बर्थ-डे वत्स !'
हिन्दीमूलम् - अखिल रायजादा गूर्जरानुवादः - आशावीरेन्द्रः
सौजन्यं – भूमिपुत्रः
६२