________________
कथञ्चिन्मम देहेऽवर्ततैव वर्धते स्म चाऽपि । समेषामप्येतेषां रोगाणां मम देहे सत्त्वमासीदेव, सहैव ये रोगा इतोऽप्यग्रे वर्णिता आसन् तेषां तु यद्यप्यन्यानि लक्षणानि मयि नाऽवर्तन्त तथाऽपि 'कार्यकरणेऽरुचिरालस्यं, नितान्तं स्वपनेच्छा' चे'ति लक्षणत्रयं तु मयि वर्तते स्मैव । अत एतावद्भिर्दुष्टरोगैराक्रान्तोऽहं शत्रुभिराक्रम्यमाणो निर्बलो जन इव सर्वथा हताशोऽभवम् ।
यदाऽहं पुस्तकालयमागतस्तदा मम मनसि य उत्साह यश्चोल्लास आसीत् स सर्वोऽपि पुस्तकालयान्मयि निर्गते सत्यदृश्योऽभवत् । अहं सर्वथा रुग्ण: क्लान्तः क्षीणश्चाऽस्मीति मयाऽनुभूतम् । अत: सत्वरमेवाऽहं मे चिकित्सकस्य मित्रस्य चिकित्सालयं प्राप्तः । मां दृष्ट्वा तेन पृष्टम् – ‘अयि भोः ! कथं त्वमद्याऽत्राऽऽगत: ? किं गृहे कश्चन रुग्णो वा ?'
एकमपवादभूतं रोगं विहाय प्रायशः सर्वैरपि रोगैः पीडितमपि मामयमेवं पृच्छति खलु ? - इति विचिन्त्याऽहमतीव विस्मितोऽभूवम् । मया स्खलिताक्षरैस्तस्य पुस्तकालयवृत्तं श्रावयित्वा मे स्वास्थ्यपरीक्षणं कर्तुमुपचारं च कर्तुं विज्ञप्तम् । तेनाऽपि स्मित्वा सर्वविधैरपि परीक्षणैः परीक्षितोऽहम् । तत उच्चैर्विहस्य स्कन्धाभ्यां च मां धूनयित्वा स मम पृष्ठे द्वित्राश्चपेटा मारितवान् । रुग्णेन मया सह तस्यैतादृशं निर्दयं वर्तनं दृष्ट्वाऽहमाघातं प्राप्तवान् । ततो झटित्येवैकस्मिन् पत्रे स उपचारक्रमं (Prescription) लिखित्वा मे दत्तवान् । मयाऽपि तदपठित्वैव युतककोषे प्रक्षिप्तम् । तस्य चाऽऽभारं मत्वा ततोऽहं निर्गत्य त्वरयौषधापणं प्राप्तः । आपणिकायोपचारक्रमपत्रं दत्तं मया । तेनाऽपि पठित्वा मे प्रत्यर्पितं तत् । मया साश्चर्यं पृष्टं 'भवत औषधापणे किमिदमौषधं नोपलभ्यते वा ?' तेनोक्तं - ' न ममाऽपि तु कुत्रचिदप्यौषधापणेऽत्रोल्लिखितमौषधं नैव प्राप्यते । यदि भवतो गृहमत्र स्यात् तदा भवतो माता भगिनी भ्रातृजाया वौषधमिदं सम्पाद्य दास्यति, यदि च गृहं न स्यात् तदा शीघ्रं किञ्चिच्छोभनमुपाहारगृहं गच्छतु, तत्रैवेदमौषधं प्राप्स्यते' । तस्य वचनैः सहसा चमत्कृतोऽहं तदुपचारपत्रं पठितवान् । तत्र लिखितमासीत् -
"१. प्रातः सप्तवादने चषकत्रयमितं चाय् - पानं दशाधिकसुपिष्टकैः सह ।
२. द्वादशवादने पञ्चदश रोटिकाः घृतस्निग्धाः, पर्याप्तमात्रं शाकं द्वित्राणि कच्चोलकानि दाली, स्थाल्यर्धमित ओदनः, दुग्धं तक्रं वा चषकपूर्णम् ।
३. अपराह्णेऽपि प्रात इवोपचारः ।
४. ततः क्रोशं तदधिकं वाऽटनं पादचारेण, कन्दुकादिक्रीडनं वा ।
५. सायं च द्वि-त्रैरपूपैः सह कृशरः शाकं क्वथिता च ।
६. मासे न्यूनतोऽपि द्वि-त्रवारान् मिष्टान्नग्रहणं चतुष्पञ्चवारांश्च पक्वान्नग्रहणम् ।
-
विशिष्टा सूचना
★ यत् किमपि पठित्वा श्रुत्वा वा स्वमस्तिष्कं न विकृतं कर्तव्यम् ।” तत आपणिकेन सहाऽहमप्युच्चैर्हसित्वा ततो निर्गतः ।
[आङ्ग्लमूलाद् गूर्जरभाषया प्रा. नटवर - बूच - इत्यनेन लिखितमिहाऽनूदितम् ।] ५७