________________
लेखक परिचयः
लेखस्याऽस्य लेखको निवृत्तः सैन्याधिकारी लेफ - कर्नल - श्रीचन्द्रशङ्करः बक्षी अस्ति । ऐसवीये १९१४तमे वर्षे राजकोट(गूजरात) नगरे गृहीतजन्माऽयं जनोऽद्याऽष्टानवत्यधिकवर्षायुरपि युवा एव । स्वजीवने सैन्याधिकारित्वं सैन्यस्यैव च गुप्तविभागस्य जोइन्टसाइफरब्यूरो- इत्यभिधस्योपनियामकपदं प्राप्य निवृत्तोऽयमध्यात्मप्रदेशस्याऽप्यधिकारी । आध्यात्मिकसाहित्यस्य तलस्पर्शितयाऽध्ययनेन प्रायोगिकाभ्यासेन च स्वजीवने तेन यदनुभूतं यच्च प्राप्तं तस्य निःष्यन्दरूपेणैकं पुस्तकं प्रकटितं - वैश्विकचेतना इत्यभिधम् । इदं च गूर्जरभाषायां लिखितमासीत् । जनैस्तत् पठित्वाऽऽह्लादितैर्विज्ञप्तं सर्वेषां जनानामुपकारार्थमाङ्ग्लभाषायामप्यस्याऽनुवादः कर्तव्य - इति । तदा स्वयमेव बक्षीमहोदयेन आङ्ग्लभाषायामपि Cosmic Consciousness (CosCon) इति नाम्ना तदेव पुस्तकं पुनरपि लिखितम् ।
तदनन्तरं तेनाऽन्यान्यपि दश पुस्तकानि लिखितानि येषु जीवनस्य बहूनि रहस्यानि प्रकटितानि । तत्र च कच्छप्रदेशस्य भूकम्पानन्तरं तेन तस्याऽन्यासामपि च दुर्घटनानामवलम्बनेन पूर्णाभ्यासपूर्वमिदं दशमं पुस्तकं 'नो 'र्यां सरनामां नो 'र्यां ठेकाणां' (नष्टाः सङ्केताः नष्टानि स्थानानि) इत्यभिधं लिखितम् । अत्र पुस्तके तस्य मुख्यं लक्ष्यं हि सर्वत्र कार्यकारणभावस्य निश्चितमस्तित्वं भवत्येव - इति प्रकटनमस्ति । तं चाऽवलम्ब्य क्षणभङ्गुरमपि जीवनं सुन्दरतया जीवितुं शक्यमस्ति इति चाऽत्र हार्दमस्ति । (अयं लेखोऽपि तस्मादेव पुस्तकात् गृहीत्वाऽनूदितोऽस्ति ।)
-
-
५१
इदमेव हार्दं मनसिकृत्य स एतावत्यपि ज्येष्ठवयसि युवजनानामपि ईर्ष्याकरं जीवनं सानन्दं जीवन्नस्ति ।