SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ वैज्ञानिकैस्तु स्वनिवेदने इदमपि लिखितमासीत् – “यदि रसायनस्याऽस्य प्रतिक्रिया आरब्धा भवेत् तदा सा कथमपि निवारयितुमशक्यैव । रसायनमिदं सर्वथा जीवनहानिकरम् । अतोऽत्यन्तं सावधानतया निर्मातव्यं यत्नेन चोपयोक्तव्यमिति" । किन्तु संस्थामुख्यैनिवेदनमिदं सर्वथाऽपहृतम् । यतो नरवृकाणामेषां धनाद् ऋते नाऽन्यत् किञ्चित् दृश्यते स्म । भोपालस्थिते उद्योगालये त्वरया रसायननिर्माणं न सम्भवेत्, अतः प्राथम्येन तदुपयोक्तुममेरिकादेशादेव संस्थयाऽऽनायितम् । समुद्रमार्गेण तद् मुम्बईनगरे आगतम् । तस्योत्तरणार्थं च प्रान्तस्थितमाजी-उत्तरणस्थानं (port) समुचितमिति निश्चितम् । ततस्तद् रसायनं भोपालं प्रापयितुं कमल-परीख: तथा तत्सहायकः शकील-खुरेशी च द्वे ट्रक्याने गृहीत्वा तत्रैव प्राप्तौ । कमलपरीखेण कार्बाइडसंस्थायां विस्तरेण शिक्षा गृहीताऽऽसीत् । यदा हि प्रवहणात् रसायनपात्राण्यवतारितानि तदैकतमं पात्रं गलद् दृष्ट्वा नौकासञ्चालकेन सूचितं यत् - तत् पात्रं समुद्रे प्रक्षेपणीयमिति । किन्तु कमलपरीखेण झटिति तं निवार्य तस्य पात्रस्य गलनं केनचित् संश्लेषकपदार्थेन निरुद्धम् । अतिभयङ्करोऽपघातः क्षणार्धेन निवारितस्तेन । (किन्तु आगामिनो महापघातस्य भूमिकाऽपि सज्जीकृता एतेन ।) ततो द्वाभ्यामपि परीख-खुरेशीभ्यां सावधानतया रसायनपात्राणि भोपालनगरे प्रापितानि । कतिपयदिनैरेवोद्योगालयनिकटस्थकूपाद् विचित्रो दुर्गन्धो निःसर्तुमारब्धः । जनैरवगतं यत् कूपजलमवश्यं प्रदषितमस्तीति । द्वि-त्रदिनेष व्यतीतेष्वेव वसतौ विद्यत्पात इव सञ्जातः । प्रदषितं जलं पीत्वा वसतेः सर्वा अपि गावो मृताः । जनाश्चिन्तिता अभवन् - 'अद्य गावो मृताः, श्वो वयम्' । जनानामत्याग्रहवशादुद्योगालयव्यवस्थापकैः कूपजलपरीक्षणं कारितम् । परीक्षणेन ज्ञातं यत् कूपजलं सर्वथा विषमयं सञ्जातमस्तीति । किन्तु व्यवस्थापकैः सर्वथा तत् संगोप्य जनेभ्यो यथाकथञ्चिदुत्तरं प्रदत्तम् । उद्योगालयनिकटे एव कालीमैदान-नाम स्थलमासीत् यत्र शतशो जना वसन्ति स्म । वोरनवूमरनामकेन अमेरिकीयाधिकारिणा एतद् दृष्ट्वा चिन्तितेन जनानां स्थलान्तरं कारयितुं तत्कालीनमुख्यमन्त्रिणे अर्जुनसिंहाय निवेदनं कृतम् । अर्जुनसिंहस्य तु आगामिनिर्वाचने तेषां जनानां मतप्राप्तेराशाऽऽसीत् । यद्येते जना इतो निर्वास्येरन् तदा साऽऽशा धूलिसाद् भवेत् । अतः अर्जुनसिंहेन तद् निवेदनमपि संगोपितम् । एते अमेरिकीया अधिकारिणस्तेन सह मित्रतासम्बन्धेन बहुशो मिलन्ति स्म । एतत्सम्बन्धस्योपयोगं कृत्वा अर्जुनसिंहस्तन्निवेदनं निगिलितवान् । (सर्वं कथं क्रमशो घटितं तन्निरीक्षणार्हम् ।) भोपालस्थे उद्योगालये दि०४/५/१९८० तमे दिने औपचारिकतया सेविनरसायनोत्पादनं प्रारब्धम् । तदात्वे एव राजकुमार-केसवाणीनामकेन सिंधीयगृहस्थेन रपट-वीकली(Rapat Weekly)नामकं साप्ताहिकवृत्तपत्रं प्रकाशयितुमारब्धमासीत् । तेन सद्य एवाऽवबुद्धं यदयमुद्योगालयो जनहितविनाशकोऽस्ति । तत्र यद् रसायनं निर्मीयते तदतीवविषमयं मनुष्याणां सर्वथा हानिकरं चाऽस्ति । केसवाणीमित्रमशरफनामकमुद्योगालये वायुगलनं रोढुं यदा गतस्तदा वायुस्तस्य श्वासे प्रविष्टः, स च मृतः । एतेन केसवाणी अत्यन्तं
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy