SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 1सह परिणीय स रजकघट्टे वस्त्राणि क्षालयितुं प्रवृत्तः । केचमकराणस्थितः पुनोः पिता यदेतज्ज्ञातवान् तदा कुपितो जातः । येन केनाऽपि प्रकारेण पुनुरत्राऽऽनेतव्य एवेति पुनोमा॑तॄन् सचिवं चाऽऽदिश्य भंभोरं प्रेषितवान् । किन्तु कथमपि पुनुस्तेषां वचनं नाऽङ्गीकृतवान् । अतस्तस्य | भ्रातरस्तमपहृत्य नेतुं निर्णीतवन्तः । रात्रौ च रङ्गशालायां सर्वेऽपि सुरापानार्थमेकत्र जाताः । पुनुं च तेऽधिकं सुरापाणं कारितवन्तो येन स मदेन मन्दसंज्ञ इव सञ्जातः । तदवस्थं च तं उन्नीय ते उष्ट्रेन केचमकराणं प्रति प्रस्थितवन्तः । प्रातश्च यदा ससइर्जागृता तदा पुर्नु तत्परिजनांश्चाऽदृष्ट्वा विह्वला जाता। MAK. पुनुं च मार्गयितुं सा निर्गता । भ्रामं भ्रामं क्लान्ता सा मार्गे एव पतिता । पवनप्रेरिताभिर्वालुकाभिस्तस्याः समग्रमपि शरीरमाच्छादितमिव जातम् । केवलं तस्या उत्तरप्रावारकस्य प्रान्तभाग एव बहिर्दृश्यते स्म । इतश्च पुनुर्यदा प्राप्तसंज्ञो जातस्तदा स्थितिं ज्ञातवान् । स चाऽवसरं प्राप्य भ्रातॄणां सार्थात् पलायनं कृतवान् । भ्रामं भ्रामं सोऽपि ससय्या देहो यत्र पतित बार आसीत् तत्राऽऽगतः । तस्या वस्त्रप्रान्तेन तामुपलक्ष्य विरहव्यथितस्तत्रैव दिवं गतः। र पात्राणि १. रजकः २. रजक्री ३. ससइः ४. अरिजामः केचमकराणप्रदेशस्य राजा ५. ज्येष्ठभ्राता आरिजामस्य ज्येष्ठपुत्रः ६. पुनुः आरिजामस्य कनीयान् पुत्रः ७. सचिवः ८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy