________________
LLL
भो! लघुर्वा गुरुर्वेति न प्रश्न: केवलं गुण एव पूजनीयः, एवमेव लघुर्वा गुरुर्वा दोषस्तु निन्दनीय एव ! अतो गुणदृष्टिं वर्धयस्व न दोषदृष्टिम् । यावद् निषेधात्मकविचाराश्चित्ते विद्यमानास्सन्ति तावद् विधेयात्मकविचाराणां सद्गुणानां च विकासोऽसम्भव एवाऽस्ति ।
एकः शिष्यो झेनगुरोः समीपे आगतवानुक्तवाँश्च-प्रभो ! अहं बौद्धदर्शनस्य गुरोः समीपं गतवान्, शैव-वेदान्तदर्शनस्य गुरोः समीपं गतवान्, किन्तु तत्र न किमपि प्राप्तवान् । अद्याऽत्र भवत्सकाशे आगतवान् । अतो मे दीक्षां ददातु ।
गुरुणा चायपेयं पात्रं चाऽऽनायितम् । स पात्रं भर्तुमारब्धः । पात्रे भृते सति पेयं बहिः पतितम् । तथाऽपि पेयपूरणं गुरुर्न निरुद्धवान् ।
गुरुदेव ! पेयमिदं बहिः पतति ।
गुरुरुवाच - तवाऽपि चित्तमन्यान्येन विषयेण भृतमस्ति । त्वं रिक्तो भूत्वा समागच्छ । अन्यथा मया दीयमानं किमपि नैव स्थास्यति । पात्रात् पेयमिव पतिष्यति ।
बन्धो ! कृषीवलोऽपि वर्ष । कालपूर्वे क्षेत्रे विद्यमानान् कचवर-पाषाणकण्टकादीन् दूरीकृत्यैव बीजादिकं भूमौ वपति, अन्यथा धान्यादिकं सम्यङ् न रोहति ।
अतो, यदि जीवनं सार्थक्यं करणीयमस्ति तर्हि निषेधात्मकविचारान् तिरस्कृत्योत्साह-आनन्दैर्जीवनं प्रसन्नीकुरु ।
न विद्यया केवलया तपसाऽपि च पात्रता । यत्र विद्या-चरित्रे च तद्धि पात्रं प्रचक्षते ॥
(महाभारतम्)
४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org