________________
Jain Education International
(3)
ज्ञायते नो, किमर्थं प्रदर्श्यामहे !!
निर्विवेकैर्नृशंसैर्भृशं खण्डिता मूर्तयो हन्त यत्नेन रक्ष्यामहे । नाऽक्षता नासिका नोऽक्षतं लोचनं ज्ञायते नो किमर्थं प्रदर्श्यामहे ॥१॥
कृत्तनासां स्वसारं दशास्योऽपि नोsमर्षयद् वैरिजायां जहार क्षणम् भ्रातरो भारतीया न मे तादृशास्तावता दुर्विपाकं समीक्षामहे ॥२॥
पर्वताज्जन्ममूलात्प्रसह्योद्धृताष्टड्डिकासम्प्रहारैर्मुहुः संस्कृताः । प्रस्तराद्देवभावं गताश्चाऽपि नो हा विधे ! सत्फलं तस्य विन्दामहे ॥३॥
निर्मिता भोः किमर्थं, न चेद्रक्षिताष्टाङ्किकानां वृथाऽभूत्प्रभूतश्रमः । नामशेषत्वमासीद् वरं मादृशां नाऽङ्गभङ्गस्थितौ स्थापनं संग्रहे ॥४॥
मन्दिरे नो प्रतिष्ठाऽभवज्जातुचित् जन्मजातं निरर्थं त्रिदेवात्मकम् । कीदृशीयं परा दु:स्थितिर्दुस्सहा यत्समाजेऽद्य नग्ना विधीयामहे ॥ ५ ॥
नैव पाद्यं न चाऽर्घ्यं न पुष्पाञ्जलि - धूपदीपादिकं नो, न वा दक्षिणा । नो प्रणामस्तुतिर्नो क्षमाप्रार्थना पञ्चभिर्नोपचारैः समर्च्यामहे ॥६॥
१. सागरविश्वविद्यालयीये संग्रहालये स्थापिताः आक्रमणकारिभिः खण्डिता दीनदीनाः समुत्खननात्प्राप्ताः मूर्तीः दृष्ट्वा प्रणीतं काव्यम् ।
१४
For Private & Personal Use Only
www.jainelibrary.org