________________
श्रीविजयनेमिसूरीश्वर-वंदना
डो. वासुदेव वि. पाठकः 'वागर्थ' विद्यावारिधयस्सन्ति जनादर्शनिदेशकाः। यशसा प्रोन्नतास्सन्ति
नेच्छन्ति सर्वथा यशम् ॥
मित्रवत्प्रोज्ज्वलास्सिद्धाः सूचयन्ति पदं परम् । रीतिमुत्कर्षदां नित्याम श्वसन्ति श्वासयन्ति च ॥ रक्षां दिशन्ति सत्वेन चन्दनैर्वन्दिता वराः । दर्शनैर्दृष्टिवन्तश्च नानाशास्त्रविचक्षणाः ॥ गुरवः पूजिताः प्रीत्या श्रीनन्दनवने वरे । कल्पतरुप्रसूनैश्च पुष्पैस्सारस्वतैश्शुभैः ॥ इत्येवाऽस्मन्मतिर्बुद्धिः इत्येवाऽस्मद्गतिर्गुरो । वन्दनाऽऽनन्दना दिव्या, दिव्यं दिशन्तु देशिकाः ॥ मङ्गलो देशिकस्स्याच्च शिष्यश्च मङ्गलस्स्मृतः । मङ्गलं शिक्षणं सेव्यं त्रयी मङ्गलिकी वरा ॥
ज्ञानपञ्चमी, २०६५ सरस्वतीनगर, आंबावाडी, अमदावाद, ३८००१५
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org