________________
शासनसम्राड्-जगद्गुरु-आबालबह्मचारि
परमपूज्यभट्टारकाचार्यमहाराजश्रीमद् विजयनेमिसूरीश्वरभगवविरहाष्टकम् ॥
छत्रच्छायमुपास्य यस्य सपदि प्राप्तं शिरोरत्नतां लोकेऽस्मिन् परिभूय धर्मनिवहान् हा हन्त तत् त्वां विना । नाथाऽनाथमिदं ससचमधुनोत्साहेन हीनं जवाज्जैनं शासनमाप्य कं मुनिवरं सम्राजमादीप्यताम् ? ॥१॥ दीप्यन्तामधुनाऽऽशु लोकगगने नानाऽन्यधर्मोडवः शब्दायन्तु विसाध्वसागतमहाघूका विपक्षा भृशम् । अज्ञानान्धतमिस्रमेवमथवा लोकानतिक्राम्यतु धर्मव्योममणिमहामुनिरसौ नेमिर्बताउस्तं गतः ॥२॥ हृष्टं लोकपयोजनुस्तमततिर्जाड्यस्य नष्टोदये म्लानं संसृतिवासनालतिकया दीक्षाप्रचण्डातपे । शुष्कं स्वल्पसरोविपक्षनिवहै: पाके क्रमात् तेजसो वृद्धं धर्मशुभैर्बताउस्तमयितो नेमिः कथं धिग विधे ! ॥३॥
क्वेवं यास्यथ ? किं करोषि ? कथमेतादृक् प्रमादात् कृतं ? स्वाध्यायं कुरु, नाऽसदाचर, मुधा नेतस्ततो याहि भोः ।। इत्थं शिक्षणवृत्तिरद्य भवता केनाऽपराधेन मे नो स्वामिन् ! कथमुच्यते प्रियतया हा हन्त ! भाग्यैर्हतः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org