SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ तद्भवतु, अहं देशनां श्रोतुमेव गमिष्यामि । नगरजना: कान्हडश्च देशनां श्रोतुमगच्छन् । मुनिराज एकं यामं यावद्देशनामदात् । ततः सर्वे नगरजना गताः केवलं कान्हड उपविष्टः । अथ कान्हडो मुनिराजं पृच्छति स्म अहं धर्मं कर्तुमिच्छामि, कृपया मार्गदर्शनं करोतु । मुनिराजः कथयाञ्चकार - त्वमेकं नियमं गृहाण यत् पूर्णिमाया निशायां बह्मचर्यव्रतं पालनीयम् । कान्हडस्तं नियमं प्रतिपन्नवान् पृष्टवांश्च - अहमपठितोऽस्मि, पूर्णिमारजनीं कथं भोत्स्यामि ? मुनिराजः कथयामास - आकाशे पूर्णचन्द्रं दृष्ट्वा त्वं पूर्णिमां भोत्स्यसि । कान्हडो द्वात्रिंशद्वर्षीय आसीत् । तस्य कोऽपि स्वजनो नाऽऽसीत्, धनस्याऽभावे तेनोद्वाहो न कृत आसीत् । - एकदा कान्हो वने जगाम । स वर्षाकालस्य कारणेनाऽऽर्द्र काष्ठपुञ्जमानिनाय । तदैकस्य श्रेष्ठिनो मुख्यसेवकेन- अयं चन्दनकाष्ठपुञ्जोऽस्तीति लक्षितं । अत: स कान्हडं वञ्चयित्वा महार्घं चन्दनकाष्ठपुञ्जमल्पमूल्येन गृहीतवान् श्रेष्ठिने च ज्ञापितवान् । श्रेष्ठी कथयाम्बभूव त्वयेदमन्याय्यं कृतं, गच्छ, कान्हडं चाऽऽह्वय । आगतं कान्हडं श्रेष्ठी पप्रच्छ अयं चन्दनकाष्ठपुञ्जो महार्घोऽस्ति, अतस्ते चन्दनकाष्ठपुञ्जस्य भारेण तुल्यं सुवर्णमर्पयामि । किं तत् स्वीकरिष्यसि ? कान्हडः कथयाञ्चकार - आम्..... कान्हडः कनकपुञ्जं लात्वाऽचलत्। मार्गे स पण्याङ्गनाभवनस्थया वेश्यया दृष्ट आहूय कथितश्च - अद्य निशायां त्वं मया सह क्रीड । भवत्वित्युक्त्वा कान्हडेन सर्वमपि स्वीयं सुवर्णं तस्यै दत्तम् । वेश्या चिन्तयति असावुदारो जनोऽस्ति, ततस्तेन सह पत्नीसदृशं व्यवहारं करिष्यामि । पश्चात् पण्याङ्गना कान्हडं स्त्रपयित्वा चारूणि च वस्त्राणि परिधाप्य पर्यङ्के स्वापितवती । कान्हडो वेश्यया सह गमनायोत्सुकोऽभवत् । वेश्या देहभूषाकरणे मग्नाऽऽसीत् तदा कान्हडस्य दृष्टिर्गगने पतिता । नभसि तेन पूर्णचन्द्रो दृष्टः स्वकीयश्च नियमः स्मृतः । स वेश्याभवनात् पलायनं कर्तुं सोपानश्रेण्यामवतीर्णः । तदाऽऽगच्छन्ती वेश्या सम्मुखं मिलिता । सा पप्रच्छ कुत्र गच्छसि ? Jain Education International ६९ For Private & Personal Use Only - 18181816 www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy