________________
आत्मजागृतिर्जयतु
कथा
मुनिधर्मकीर्तिविजयः कश्चित् प्रशान्तवदनो निर्मलनयनश्च साधुः कस्यचिद् ग्रामस्योपवने स्वसाधनायां निजानन्दे च निमग्न आसीत् । तस्य विद्वत्ता कीर्तिश्च सर्वत्र प्रसृताऽऽसीत् । सर्वेऽपि नगरजना वन्दनार्थं तत्पार्श्वे निरन्तरमागच्छन्ति स्म । राजाऽप्येतच्छ्रुत्वाऽऽगतवान् । नमस्कारं कृतवान् सः, किन्तु तन्नमस्कारकरणे "अहं राजे"ति पदस्याऽभिमानः प्रतिफलति स्म ।
साधुनैतज्ज्ञातम् । स तं आशिषाऽनुगृहीतवानुक्तवाश्च - हे राजन् ! भवता स्वबलेन विशालं समृद्धं च राज्यं प्राप्तम् । यदि कदाचिद् भवान् निर्जनवने गच्छेत्, भवन्तं तृष्णा बाधेत, मे प्राणाः गच्छेयुरित्युनुभूयेत, किन्तु कुतोऽपि जलप्राप्तिन स्यात्तदा यदि कोऽपि पान्थः जलमानीय "भवतेऽहं जलं दद्यां यदि भवान् मह्यं राज्यार्धं दद्याद्" इति कथयेत्तदा भवता किं क्रियेत ?
राजोवाच - किं चिन्तनीयम् ? तस्मै अवश्यं राज्यस्याऽर्धं दद्याम् ।
साधुरवोचत् - राजन् ! कदाचिद् मरणान्तव्याधिर्जायेत तदा वैद्यराजो "यदि मह्यं राज्यार्धं दद्याद् भवान् तर्हि भवन्तमुज्जीवयेय''मिति ब्रूयात्तदा भवान् किं कुर्यात् ?
राजाऽऽह - प्राणेभ्योऽधिकं प्रियं किमस्ति ! अतोऽवश्यं राज्याधं तस्मै यच्छेयम् ।
साधुरब्रवीत् - राजन् ! यदि किञ्चिज्जलं प्रत्यौषधं च प्रति वा यदि राज्यमपि दातुं भवानुद्युक्तोऽस्ति तर्हि सामान्यस्य राज्यस्यैतस्य प्राप्त्यर्थं रक्षणार्थं च कथममूल्यं जीवनं मुधा गमयति भवान् ? कथं चाऽभिमानं करोति ?
एतन्निशम्यैव राजा साधोश्चरणयोः पतितवान् । तदैव समीपस्य U' वृक्षस्योपरि स्थितः पिकोऽवदत्' - 'आत्मजागृतिर्जयतु' ।
६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org