________________
१८९८१८९८PD26262
सर्वं जानानाऽपि किमेवमज्ञा भवसि ? एभिः पुरस्कारैरेतेषां महापुरुषाणां गरिमा तु न वर्धिष्यते । किन्तु महापुरुषाणामेषा नामभिरेतैषां पुरस्काराणां गरिमा त्ववश्यमेव वर्धिष्यते । इदमेव तु प्रन्यासस्याऽस्य प्रयोजनं तथाविधानां नामघोषणे ।' तदा खलु भूयोऽपि व्यासनीतिवाक्यस्याऽस्य मोघार्थवत्ता प्रत्यक्षमनुभूता आवाभ्याम् ।
"स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ।"
ये प्रथितपूर्वाः पूजितपूर्वाः तेषामेव पुन: पुन: पूजनेन न खलु पूज्यानां महिमा वर्धते अपि तु पूजकानां महिमा उपचीयते । किं न पठितानि वृत्तानि प्रत्यहं यद्यदि कश्चित् प्रतिष्ठितो जनः कुत्रचन महता सम्मानेन सभाज्यते तर्हि तदनु तस्य चाटुकारा: स्थाने स्थाने तदुपलक्ष्ये तदनुवर्तिनो वर्धापनसमारोहानायोजयन्ति !! '
'किमयमपि चाटुचर्याया एव कश्चन प्रकारोऽस्ति ?' मत्पत्नी सपरिहास - मनुयुक्तवती । 'नैव, नैव', मया कथितम्, 'नेयं चाटुचर्या किल, सेयं हि सुमहती चातुर्य-चर्या विद्यते । चतुरा विक्रेतारः स्वपण्यवस्तूनां विक्रयवृद्धये यथा प्रचारयन्ति यदेतस्य फेनकस्य (Soap, साबुन) प्रत्यहं प्रयोगं माधुरी दीक्षिता करोति, रानी मुखर्जी वा करोति तथैव स्वसंस्थायाः स्वसंस्थानीयपुरस्काराणां च महिमख्यापनाय कनीयांसि संस्थानानि प्रचारयन्ति यदियं सा संस्थाsस्ति, अयं स पुरस्कारोऽस्ति येन भारतस्य भूतपूर्वो राष्ट्रपतिः पुरस्कृतचरः, नौबेलपुरस्कारविजेता वैज्ञानिको वा पुरस्कृतचर इत्यादि ।' नवयुगीनानां नूतनानामेषां महाजनीयानां चातुर्याविष्काराणां परिज्ञानेनाऽद्यतने सुहृत्संलापे यदस्माकं नेत्रोन्मीलनं समभूत्तेन चिररात्राय सर्वे वयं प्रहृष्टमानसाः स्थास्याम इत्येवं विचारयन्तः सर्वे स्वगृहान् प्रत्यावृत्ताः ।
[मञ्जुनाथ स्मृति संस्थानम् C/8 पृथ्वीराज रोड, सी. स्कीम, जयपुर, ३०२००१]
Jain Education International
४९
For Private & Personal Use Only
य
www.jainelibrary.org