SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ भासितभूविभागं, क्वचित् सेवककरतलाञ्चितचटुलचामीकरबद्धचामरोद्भूतचमत्कृतपवनं, क्वचिन्नानादिगन्तागतश्रीसङ्घहयहेषारवबधिरीकृतदिगन्तरं, क्वचिदागममन्त्रोच्चारणजनितपूतदिग्भागमगाधमहोत्सवसमृद्धं सुधाधवलितमन्दिरमासेदुः । समागत्य च ते प्रथमं सर्वदुःखहरणक्षमं पार्श्वनाथं प्रणम्याऽनन्तरं सविनयं सप्रणयं सानन्दं सभक्ति च मुनिवरं प्रणम्य तदीयातुलविभवं च विलोक्य मनस्येवं व्यचिन्तयन् - 'किमयं कोऽपि भूपतिलकः प्रच्छन्नमुनिवेषः ? किमु विशालविभवशाली कोऽपि ? अथवा श्रीमान् लक्ष्मीपतिः साक्षाद् ? आहोस्वित् स्वर्गादवतीर्णः शचीपतिः ? किमयं स एवाऽस्माकं निजदर्शन-स्पर्शनसनाथिमानवजन्माचार्यवर्यश्रीमान्नेमिविजयसूरिरेव निजतपोलब्धाष्टसिद्धि ?-रितिनानाविधशङ्कातङ्कचित्तवृत्तयोऽभूवन् । ____ अथ समुपक्रान्ते च प्रतिष्ठाविधौ तत्रत्यसङ्ग्रहीतमनुजविग्रहा विग्रहा इव राक्षसा विविधशस्त्रास्त्रसहचरा यज्ञविघ्नकर्तारो राक्षसा इव कतिचिन्मानवाः समं पापतन् तत्राऽनेकविधयज्ञविघ्नाय समापुञ्जन्त । अथ केनाऽपि कथिततदीयदुराचारकथो मुनिवरस्तदानीमेवाऽनेकविघ्नप्रणाशपटिष्ठप्रख्यातपराक्रमं राजपुरुषं विश्वामित्र इव रघुवरतिलकमानाय्य निविघ्नतया समाप्तिमनयत् प्रतिष्ठाविधिम् । अनियमयच्च प्रतिवर्ष माघशुक्ल श्रीपञ्चम्यां तदीयदर्शनागतजनसङ्घानामेकत्री(त्र)भवनमिति । अद्याऽपि च तद्दिने देशदेशान्तरागतजनसङ्घातस्तत्रत्यजिनमन्दिरं साधुवरसंस्थापितमनेकविधमागतजनानां शय्याभोज्य-प्रदानं चाऽवलोक्य के न तदीयपुण्यप्रभावचकितचित्तास्तं मुहुर्मुहुर्नत्वा प्रशंसन्ति ? एवंविधमहाप्रभावोऽसौ मुनिवरोऽनेकानेकदेवमन्दिरोद्धारोद्धारकरणजनितयशस्तोमेन देवलोकेऽपि निजयशोलेखनपत्रदारिद्र्यमचीकरत् । किं पुनस्तदीयगुणवर्णनमल्पाल्पतरमतयो निर्जीवलेखनीतो मनुष्यकाः कर्तुमर्हन्ति ? ॥ इति भूयो भूयोऽतिप्रह्वाञ्जलिविनयनतकन्धरः प्रणम्य विज्ञापयामि यत् किलाऽत्र मदीयमन्दबुद्ध्या सञ्जातदोषकोषस्तदमर्षणीयोऽपि मर्षणीयः करुणावरुणालयैः स्वभावसहिष्णुभिर्देवकल्पैर्मुनिवरैस्तदीयानुगतशिष्यैश्चेति विरमामि ।। || शुभमस्त्वग्रे ॥ । १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy