SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ISISXXSILE प्रास्ताविकम् ॥ प्रवर्तमानःसंवत्सरः पूजनीयचरणानां स्पृहणीयचरितानां च पूज्यपादाचार्यभगवतांश्रीविजयनन्दनसूरीश्वराणां जन्मशतीसंवत्सरः। वयं साधवोऽस्य परमसुभगस्याऽवसरस्योद्यापनं कथं कुर्याम ?' इति प्रश्नोऽस्माकं मनसि कतिपयमासेभ्यः पूर्वं प्रादुर्भूतः। तस्य निराकरणमपि तत्क्षणमेव चित्ते स्फुरितं यदेकमनियतकालिकं गीर्वाणभाषाखचितं नूतनरचनानिचितंसामायिकं यदिप्रकाश्यते तर्खेकतः पूज्यपादेभ्यः सूरिभगवद्भ्यः स्मरणाञ्जलिरपि दीयेत, अन्यतो मुनीनां स्वाध्यायो लेखनपाटवं चाऽपि स्यात् । स्फुरणैषा त्वरितं निर्णयत्वेन परिणता। तन्निर्णयस्य फलमिदं तत्रभवतां भवतां करकमले अलङ्कर्वदस्ति। ___ सर्वेषां संस्कृत-प्राकृतादिभाषाविदां साधुभगवतां प्रति साध्वीभगवतीनां च प्रति निवेद्यते यद् अस्मिन्नयनपत्रे भवतां लेखान्प्रेषयन्तु । लेखा: कागदपत्र- Y स्यैकस्मिन्नेव पार्श्वे शिरोरेखामण्डितैरेव च सुवाच्यैरक्षरैर्मण्डिता: स्युरित्यस्माकमपेक्षाऽस्ति। __प्रथम एव प्रयत्नोऽयं कीर्तित्रयीनामधारिणो मुनित्रितयस्य श्रीरत्न-धर्मकल्याणकीर्तिविजयेतिनामकस्याऽस्ति । अतस्तत्र किञ्चिदपि न्यूनं स्यात् , काचित् क्षतिर्वा स्यात् तर्हि तन्मार्जनं विद्वद्भिरवश्यं कर्तव्यं, अस्मान् प्रति तद्विषये सूचनाऽपि सप्रेम प्रेष्येति सादरं निवेद्यते। नन्दनवनतीर्थ-प्रतिष्ठादिनम् __ शी. फा.शु.५, २०५५ तगडी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy