________________
-
श्रीधर्मनाथजिनगीतिः ॥
स्वामिन्! कीदृगहं गुणरहित: ? अभयदानमिह जीवनिकाये देयमवश्यं मुनिना किन्त्वल्पामपि यतनां नाऽहं कुर्वे दानविरहित: मनसा वाचा क्रियया चाऽपि पाल्यं यतिना शीलम् अस्खलितस्खलनाभिस्तदपि नु जात: शीलविरहित: अभ्यन्तरमथ बाह्यं च तपस्तप्यमेव ननु किन्तु गलितबलीवर्दन्यायेनाऽभूवं तपसा रहित: भाव एव चारित्रप्राणा भावो धर्माधार: किन्तु विभाववशेन मयाऽहं विहितो भावविरहित: मूलोत्तरगुणरहितोऽपि स्वं मन्ये हन्त सुविहितम् दम्भदिग्धधिषण: को मादृक् स्यान्मम सृष्ट्यामहितः यद्यप्यगुणोऽस्म्येवं भगवन्! तदपि त्वयि, तव मार्गे भक्तिरस्ति सुदृढा निष्कामा मम हृदि हे जनमहित! गुण एकोऽयं मयि चिरकालं विकसतु शतगुणशाख: धर्मजिनेशाऽहं येनाऽऽशु गुणशील: स्यां स्वहितः
......६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org