________________
श्रीविमलनाथजिनगीतिः॥
जय जय जय जय विमलजिनेश्वर! तव गुणगानरसाकुलचेता: सञ्जातोऽतितमामविनश्वर!
विमलीकुरु मम हृत्कमलं हे नित्योदित! गतताप! दिनेश्वर!...१ बहुकालं सोढस्तव विरहो नाऽहमथोऽधिसहे परमेश्वर! मोहध्वान्ताक्रान्तस्वान्त-स्तव विरहे वर्तेऽहं भास्वर!........२
क्षीरोदस्त्वं क्षारोदोऽहं कुशलस्त्वमहमनङ्कुशप्रष्ठः
स्थावरतुल्योऽहं त्वं स्थिरता-स्वामी हे जिन! नित्यविकस्वर!..३ त्वं सगुण: शिवरमणीसक्त: तदसक्तोऽहं निर्गुणपुरुषः मम तव भेदमिमं बहुलघुकं लघु लघु निर्मूलय जगदीश्वर!....४
तव प्रेष्योऽहं प्रेषय मामथ निजगेहे जिन! प्रेषकशेखर! करुणाशील! विगतभवलील! त्वमसि विभो! गतपील! जिनेश्वर..५
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org