________________
-
श्रीसुमतिनाथजिनगीतिः॥ सुमतिजिन! तव चरणौ प्रणमामि
सुमतिजिन! अघकरणाद् विरमामि तव चरणौ न्यक्कृतजनि-मरणौ मोहमल्लसंहरणौ कृतजगदुद्धरणौ भवरणतोऽहर्निशमहं भजामि..........१ तव चरणौ बहुशतशुभलक्षण-लक्षितमङ्गलकरणौ । देव-दनुज-मनुजैः कृतशरणौ भक्त्या नाथ! यजामि.....२ त्वच्चरणाश्रयणं कुर्वाण: पापाचरणमनुचितम् अपि बहुरुचितं मम बहु कालात् तत्कालं विसृजामि....३ तव चरणौ समवाप्य शरणमिह जातोऽहं जितभवभी: करुणाशील! कुगतिमधुना तव कृपया नैव व्रजामि......४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org