________________
सासन
. (ઓગષ્ટ ૧૯૩૯)
શ્રી સિદ્ધચક્ર अथान्यदा काशीदेशे वाणारस्यां गोविन्दचन्द्राङ्गजः श्रीजयचन्द्रो नृपः सप्तशतयोजनभूमीभूक्, अन्यराजकं दासप्रायं मन्यमानः, चत्वारिंशच्छतगजषष्टिलक्षवाजित्रिंशल्लक्षपदातिदादिशशतपित्तलमयनिस्वानादिऋद्धिसमृद्धो गङ्गायमुनायष्टी विना कापि गन्तुं न शक्नोमिति पङ्गाजेति बिरुदं वहति । तस्य गोमती दासी षष्टिसहस्त्राश्वेषु प्रक्षज्ञं निवेश्याभिषेणयन्ती परचक्रं त्रासयति । राज्ञः श्रम एव कुतः?। तत्र प्रायः सर्वेषामपि वर्णानां मीनाशनतया हिंसां महीय सी श्रुत्वा तन्निवारणाय एकं पटं पुण्यपापफलभोगभूमिस्वर्गनरकस्थदेवनारकादिविचित्रमनोहरं मध्यदेशस्थसिंहासनाधिरूढश्रीहेमाचार्यमूर्त्तितत्पुर:स्वमूर्त्तिविन्यासं श्रिया सकलविश्वविलोकनीयं द्विकोटिस्वर्णद्विसहस्रजात्यतुरगरत्नादि च प्राभृतं समर्प्य वाणारस्यां मन्त्रिण: प्रहिताः । स्थिताः कियन्तं कालम् । पूर्वमेव स्वर्णादिप्रदानैर्वशीकृता राजवाः । मेलिताश्चतैः श्रीजयचन्द्रराज्ञः । (तस्य)कृतोपदा यावता चित्रपट विलोकयति राजा तावता विज्ञप्तं सचिवैः-हे काशीश ! इयं राजगुरुमूर्तिः, तत्पुरश्चायमस्मद्राजा श्रीचौलुक्यः, श्रीगुरुणा नरक स्वर्गप्राप्तिहेतुहिंसाजीवदयाफलभोगभूमिनरकादिदर्शनेन प्रबोधितोऽस्मन्नृप । प्रतिपन्नश्चः । जीवदयाधर्मः । वादिताः सर्वत्रामारिपटहाः । संप्रति न प्रवर्तते हिंसा निर्वासिता स्वदेशेभ्यो मारिर्जगद्वैरिणी । सा सांप्रतं श्रीकाशीशदेशं व्याप्तवत्यस्ति । ततस्तन्निवारणाय स्वगुरुमूर्तिहेमहयादिप्राभृतहस्ता अत्र प्रहिताः स्म । इति मन्त्रिगिरा तेन न तादृशप्राभृतेनान्तस्तोषित: प्राह श्रीजयचन्द्रराजा सर्वसभासमक्षम्-युक्तं श्रीगूर्जरो देशो, विवेकेन बृहस्पतिः । सर्वतो दीप्यते यस्मिन्नीदृग्भूपः कृपामयः ॥१॥ कियानुपाय: क्लृप्तोऽस्ति, जीवरक्षाप्रवर्त्तने?। तमेव धन्यं मन्येऽहं, पुण्ये यस्योल्वणं मनः ॥२॥ स स्वयं कारयन्नस्ति, कृपां तत्प्रेरितोऽप्यहम् । न कारयेयं यद्येना, मतिर्ने तर्हि कीशी?॥३॥ इत्युक्त्वा स्वदेशादिभ्य आनाय्यैक लक्षाशीतिसहस्त्रमितजालानि सहस्त्रशश्चान्यहिंस्रोपकरणानि चौलुक्यमन्त्रिप्रत्यक्षं ज्वालितानि । 'हिंसा दृग्धा' इति पटहो दापितः स्वदेशादौ । द्विगुणं प्राभृतं दत्त्वा काशीशविसृष्टाः प्रधाना: पत्तनं प्राप्य श्रीहेमाचार्यपुरः स्थितं श्रीकुमारपालभूपं प्रति प्राभृतदानपूर्वं सर्वं वृत्तान्तं निवेदितवन्तः । तेनाद्भुतकृत्येन तोषितो गुरुरेवमुपश्लोकयति स्म राजानम्-भूयांसो भरतादयः क्षितिधवास्ते धार्मिका जज्ञिरे, नाभून्नो भविता भवत्यपि न वा चौलुक्य ! तुल्यस्तव । भक्त्या बपि धिया क्वापि क्वचित् धनधनस्वर्णादि दत्त्वा चित्, देशे स्वस्य परस्य च व्यरचयज्जीवावनं यद् भवान् ॥१॥ अत्रान्तरे कश्चित् कविः
આ વખતે કાશીદેશની વાણારસીનગરીમાં ગોવિંદચંદ્રનો પુત્ર શ્રીજયચંદ રાજા રાજ્ય કરતો હતો. તે બીજા રાજાઓને દાસ પ્રાય માનતો હતો. તેના રાજ્યનું ક્ષેત્રફળ સાતસો યોજન હતું. તેની પાસે ચારહજાર હાથી, સાઠલાખ ઘોડા, આડત્રીસલાખ પાયદળ અને બારસો પિત્તળમય નિસ્વાનાદિની ઋદ્ધિ હતી. તે ગંગાયમુના રૂપ લાકડી સિવાય બીજે જવા સમર્થ નહોતો તેથી તે પંગુરાજના અપર નામથી ઓળખાતો હતો. તેની પાસે ગોમતી નામની એક દાસી હતી. તે બખતર