________________
•
• •
•
•
• •
•
•
• •
•
• • •
• • •
• • •
• • • •
• • •
• •
• • • •
• •
• • •
• • •
•
૧૭૩
શ્રી સિદ્ધચક્ર
ફેબ્રુઆરી ૧૯૩૮ कार्यं लोकानुगैरिह॥१॥" अर्हतां जन्मादिपञ्चकल्याणकदिना अपि पर्वतिथित्वेन विज्ञेयाः, द्विव्यादिकल्याणकदिनाश्च विशिष्य। श्रूयते हि कृष्णमहाराजेन सर्वपर्वदिनान्याराधयितुमशक्तेन "वर्षमध्ये स्वामिन्नुत्कृष्टं पर्वदिनमाराध्यं किन्नाम ? इति श्रीनेमी पृष्टः प्राह-महाभाग् ! मार्गशीर्षशुक्लैकादशी जिनेन्द्रपञ्चकल्याणकीपवित्रिता अस्यां पञ्च पञ्च भरतैरावतक्षेत्रकल्यापाकानां मिलने पञ्चाशत् कल्याणकानि स्युः। ततः कृष्णेन मौनपौषधोपवासादिना तद्दिनमाराद्धं। ततः प्रभृति “यथा राजा तथा प्रजा' इत्येकादशी सर्वजनेष्वाराध्यतया प्रसिद्धि प्राप। पर्वतिथिपालनं च महाफलं शुभायुर्बन्धहेतुत्वादिना। यदागमः- "भयवं बीअपमुहासु पंचसु तिहीसु विहिअं धम्माणुट्ठाणं किं फलं होइ ?, गोयमा। बहुफलं होइ।जम्हा एआसु तिहीसु पाएणं जीवो परभवाउअंसमजिणइ, तम्हा तवोविहाणाइ धम्माणुट्ठाणं कायव्वं । जम्हा सुहाउअं समज्जिणइत्ति।" आयुषि बद्धे तु दृढधर्माराधनेडपि बद्धायुर्न टलति। यथा श्रेणिकनृपस्य क्षायिकसम्यक्त्वसंभवेऽपि प्राक् सगर्भमृगीघाते पृथग गर्भपाते स्वस्कन्धाभिमुखमीक्षणे निबद्धं नरकायुः। परसमयेऽपि पर्वसु स्नान-मैथुनादि निषिद्धं। यदुक्तं विष्णुपुराणे - "चतुर्दश्यष्टमी चैव, अमावास्या च पूर्णिमा। पर्वाण्येतानि राजेन्द्र! रविसङ्कातिरेव च॥१॥ तैलस्त्रीमांससंभोगी, पर्वस्वेतेषु वै पुमान्। विण्मुत्र भोजनं नाम, प्रयाति नरकं मृतः॥२॥" मनुः स्मृतावपि - "अमावास्यामष्टमी च, पौर्णमासी चतुर्दशीम्। ब्रह्मचारी भवेन्नित्यमनृतौ स्नातको द्विजः॥३॥ अतः पर्वावसरे सर्वशक्त्या धर्मे यतनीयं। अवसरे हि धर्मकृत्यं कृतं स्वल्पमप्यनल्पफलं पानभोजनादिवत्। यद् वैद्यकशास्त्रं - "शरदि यजलं पीतं, यद् भुक्तं पौषमाघयोः। ज्येष्ठाषाढे च यत्सुप्तं, तेन जीवन्ति मानवाः॥१॥ वर्षासु लवणममृतं, शरदि जलं गोपयश्च हेमन्ते। शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते ॥२॥" पर्वमहिम्ना च प्रायो निर्धर्मिणामपि धर्मे, निर्दयानामपि दयायां, अविरतानामपि विरतौ, कृपणानामपि धनव्यये, कुशीलानामपि शीले, निस्तपसामपि तपसि मतिर्भवति। द्दश्यते चैतत्सर्वदर्शनेष्वपि। संप्रत्यपि तदाह - "सो जयउ जेण विहिआ, संवच्छर चाउम्मासिय सुपव्वा। निद्धंधसाणवि हवइ जेसि पभावाओ धम्ममई ॥१॥ ततः पर्वसु पौषधादि कार्यमेव।
[ પૂ. રત્નશેખરસૂરીન્દ્રકૃત । श्राद्धविधि प्राश 3