SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 305 Vol. XXXVI, 2013 અક્ષરપુરુષોત્તમમાહાભ્યમ एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव । सम्परेतमयःकूटैः छिन्दन्त्युत्थितमन्यवः ॥ ५३ ॥ तं यज्ञपशवोऽनेन सज्ञप्ता येऽदयालुना । कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत् ॥ ५४ ॥ श्रीहरिरुवाच गच्छेत्सज्ञपितं तूर्ध्वमिति तामसमुच्यते । हिंसासङ्कोचने तस्य तात्पर्यं विद्धि वाडव ! ॥ ५५ ॥ महाभारतवचनम् सर्वकर्मस्वहिंसां वै धर्मात्मा मनुरब्रवीत् । कामाकाराद्विहिंसन्ति बहिर्वेद्यां पशूनराः ॥ ५६ ॥ तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता । अहिंसा सर्वभूतेभ्यो धर्मेभ्यो ज्यायसी मता ॥ ५७ ॥ मनुस्मृतिवचनम् नाऽकत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वय॑स्तस्मान्मांसं विवर्जयेत् ॥ ५८ ॥ वृद्धपराशरवचनम् यस्तु प्राणिवधं कृत्वा पितृन्मांसेन तर्पयेत् । . सोऽविद्वांश्चंदनं दग्ध्वा कुर्यादङ्गारलेपनम् ॥ ५९ ॥ नहि मांसं तृणात्काष्ठादुपलाद्वापि जायते । जन्तुघाताद्भवेन्मांसं तस्माद्दोषोऽस्ति भक्षणे ॥ ६० ॥ श्रीहरिरुवाच क्रतुं हिंसामयं त्यक्त्वा तस्मादहिंसमाश्रय । निर्दोषाननुकम्पस्व पशून् मूकान् दयामय ॥ ६१ ॥ स्वामी यज्ञपुरुषदास उवाच बहूक्तं हरिणा किन्तु नाऽत्यजत् स्वमतं कुधीः । अवमेने हरि वाक्यैः पारुषैरविवेकयुक् ॥ ६२ ॥ . .. " Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520786
Book TitleSambodhi 2013 Vol 36
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages328
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy